________________
१९८
सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे
[ अनुयोगाधिकारः
जातं किञ्चिद् न पश्यति तदा तद् अदृष्ट्वा 'इमां' वक्ष्यमाणां यतनां पुनः करोति ॥ ६६४ ॥ तामेवाह—
5 "ओमंथ” ति तत् पात्रमवाङ्मुखं कृत्वा त्रीणि स्थानानि समाहृतानि त्रिस्थानं-मणिबन्धहस्ततल-भूमिकालक्षणम् तत्र 'त्रिकृत्वः ' त्रीन् वारान् प्रत्येकं प्रस्फोटयेत् । ततः प्राणाः - त्रसाः तान् आदिशब्दाद् जीवादीनि वा दृष्ट्वा न गृह्णाति । “पुच्छा मूलगुण उत्तरगुणे य" त्ति शिष्यः पृच्छति — के मूलगुणाः ? के वा उत्तरगुणाः ? । अत्र निर्वचनमग्रे ( गा० ६६८) वक्ष्यते । "सुद्धो ससिणिद्धमाईसु" ति यत्राप्कायः प्रक्षिप्यमाण आसीत् तदधुनाऽपनीताकायतया 10 कदाचित् सस्निग्धं भवेत्, तच्च यदि त्रिकृत्वः प्रस्फोटनादिविधिं कुर्वता न परिभावितं तथापि श्रुतज्ञानप्रामाण्यबलेन शुद्धः, आदिशब्दाद् बीजकायपरिग्रहः || ६६५ ॥ एतदेव भावयति
15
ओमंथ पाणमाई, पुच्छा मूलगुण उत्तरगुणे य । तिट्ठाणे तिक्खुत्तो, सुद्धो ससिद्धिमाई || ६६५ ॥
दाहिणकरेण कोणं, घेत्तुत्ताणेण वाममणिबंधे ।
खोडेइ तिनि वारे, तिन्नि तले तिन्नि भूमीए ॥ ६६६ ॥
दक्षिणेन कैरेणोत्तानेन पात्रस्य 'कोण' कर्णे गृहीत्वा पात्रमवाङ्मुखं कृत्वा वामहस्तस्य मणिबन्धे त्रीन् वारान् प्रस्फोटयति, ततस्त्रीन् वारान् हस्ततले, त्रीन् भूमिकायामिति ॥ ६६६ ॥ तस- बीयाइ व दिट्ठे, न गिण्हई गिन्हई उ अद्दिट्ठे ।
गहणम्मि उ परिसुद्धे, कप्पर दिट्ठेहिं वि बहूहिं ॥ ६६७ ॥
नवकृत्वः प्रस्फोटिते सति त्रस - वीजादिजन्तुजातं यदि दृष्टं तदा न गृह्णाति, अथादृष्टं 20 ततो गृह्णाति । अथ महताऽपि प्रयलेन प्रत्युपेक्ष्यमाणानि तदा बीजादीनि सन्त्यपि शुषिर - त्वान्न दृष्टानि, ततः परिशुद्धं - निर्दोषमिति मत्वा पात्रस्य ग्रहणं कृतम्, तत उपाश्रयमागतैस्तानि दृष्टानि ततः को विधि: ? इत्याह--— कल्पते बहुभिरपि बीजादिभिः पश्चाद्दृष्टैरिति । किमुक्तं भवति ? तत् पात्रमप्राशुकमिति मत्वा न भूयोऽगारिणः प्रत्यर्प्यते, न वा परिष्ठा - प्यते श्रुतप्रामाण्येन गृहीतत्वात् ; किन्त्वेकान्ते बहुप्राशुके प्रदेशे तांनि बीजानि यतनया 25 परिष्ठापयेत् ॥ ६६७ ॥
अथ "पुच्छा मूलगुण उत्तरगुणे" ( गा० ६६५) त्ति अस्य निर्वचनमाह --- मुहकरणं मूलगुणा, पाए निक्कोरणं च इअरे उ ।
गुरुगा गुरुगा लहुंगा, विसेसिया चरिए सुद्धो ॥ ६६८ ॥
पात्रस्य यद् मुखकरणं तद् मूलगुणाः । यत् पुनर्मुखकरणानन्तरं तदभ्यन्तरवर्तिनो गिर30 स्योत्किरणं तद् निक्कोरणमित्यभिधीयते तद् 'इतरे' उत्तरगुणाः । अत्र चतुर्भङ्गी - संयतार्थ कृतमुखं संयतार्थमेव चोत्कीर्णमिति प्रथमो भङ्गः, संयतार्थं कृतमुखं स्वार्थमुत्कीर्णमिति तेनैवोत्तानेन पात्रमवाङ्मुखं भा० ॥ ४ मओ सुता ॥
१ करेण पाणिना पात्रस्य 'कोणं' कर्ण गृहीत्वा २ °न् वारान् भू मो० ॥ ३°थ न दृष्टं डे० त० कां० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org