SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २०१ भाण्यगाथाः ६७१-७५] पीठिका। अथ यानि मध्यमश्रेण्या तानि कस्याऽऽभवन्ति ? इत्याह साधारण आवलिया, मज्झम्मि अवद्धचंदकप्पाणं । अद्धं च परक्खित्ते, तेसिं अद्धं च सक्खित्ते ॥ ६७३ ॥ 'अपार्द्धचन्द्रकल्पयोः' अर्द्धचन्द्राकारयोः सौधर्मेशानकल्पयोः पूर्वा-ऽपरायतायां मध्यमश्रेण्यां या विमानानामावलिका सा साधारणा शक्रेशानयोः । किमुक्तं भवति ?–तस्यां मध्यमश्रेण्यां। पूर्वस्यामपरस्यां च दिशि त्रयोदशखपि प्रस्तटेषु यानि विमानानि तानि कानिचित् शक्रस्य कानिचिदीशानस्याऽऽभाव्यानि । तत्र यानि वृत्ताकाराणि तानि सर्वाण्यपि शक्रस्यैव, यानि पुनज्यस्राणि चतुरस्राणि वा तान्येकं शक्रस्यैकमीशानस्येत्येवमुभयोरपि साधारणानि। तथा चोक्तम् जे दक्खिणेण इंदा, दाहिणओ आवली भवे तेसिं । जे पुण उत्तरइंदा, उत्तरओ आवली तेसिं ॥ (देवेन्द्र० गा० २११) 10 पुवेण पच्छिमेण य, जे वट्टा ते वि दाहिणल्लस्स। तंस चउरंसगा पुण, सामन्ना हुंति दोण्हं पि॥ (देवेन्द्र० गा० २१३) तेषां च मध्यमश्रेणिगतानां विमानानामर्द्ध 'खक्षेत्रे' खस्वकल्पसीमनि प्रतिष्ठितम् , तदपरमर्द्ध 'परक्षेत्रे' अपरकल्पसीमनीति ।। ६७३ ॥ अथ शक्रमुद्दिश्य क्षेत्रावग्रहप्रमाणमाहसेढीइ दाहिणेणं, जा लोगो उड्ड मो सकविमाणा। 15 देवेन्द्र क्षेत्रावहेट्ठा वि य लोगंतो, खित्तं सोहम्मरायस्स ॥ ६७४॥ 'सौधर्मराजस्य' सौधर्मकल्पाधिपतेस्तावत् क्षेत्रमाधिपत्यविषयभूतम्-तिर्यग्दिशमधिकृत्य 'श्रेण्याः' पूर्वोक्तायाः 'दक्षिणेन' दक्षिणस्यां दिशि ‘यावद् लोकः' इति तिर्यग्लोकपर्यन्तः, ऊर्ध्वदिशमाश्रित्य 'मो' पादपूरणे यावत् खविमानानि स्तूप-ध्वजकलितानि, अधोदिशमुदिश्य यावदधस्तनो लोकान्त इति ॥ ६७४ ॥ भावितो देवेन्द्रक्षेत्रावग्रहः । सम्प्रति चक्रिणः क्षेत्रावग्रहमाहसरगोयरो अतिरियं, बावत्तरिजोयणाई उड्डे तु । चक्रवर्ति क्षेत्रावअहलोगगाम-अघमाइ हेट्टओ चक्किणो खित्तं ॥ ६७५ ॥ प्रहः यावत् शरस्य-बाणस्य गोचरः-विषयस्तावत् चक्रिणस्तिर्यक् क्षेत्रम् । इदमुक्तं भवतिचक्रवर्ती दिग्विजययात्रां कुर्वन् मागधादिषु तीर्थेषु यं नामाकितं वाणं निसृजति स पूर्व-दक्षि-25 णा-ऽपरसमुद्रेषु द्वादशयोजनान्तं यावद् गच्छति, एतावदन्तश्चक्रिणस्तिर्यगवग्रहः । स एव बाणः क्षुद्रहिमवत्कुमारदेवसाधनाथ चक्रिणैव निसृष्ट ऊर्द्ध द्वासप्तातयोजनानि यावद् गच्छति तावानूधमवग्रहः । अधः पुनरधोलोकग्रामाः, तथा अघा-गा, आदिशब्दाद् वापी-कूप-भूमिगृहादिपरिग्रहः । इयमत्र भावना-जम्बूद्वीपापरविदेहवर्तिनलिनावती-वप्राभिधान विजययुगलसमुद्भवा योजनसहस्रोद्वेधाः समयप्रसिद्धा येऽधोलोकग्रामास्तेषु ये चक्रवर्तिनः समुत्पद्यन्ते 30 तेषां त एवाधः क्षेत्रावग्रहः, तदपरेषां तु गर्ता-कूप-भूमिगृहादिकमिति ॥ ६७५ ॥ १ यान्यावलिकाप्रविष्टानि विमा भा० ॥ २श्य प्रस्तुतक्षेत्रा भा० ॥ ३ "उर्दु जाव चुल्लहिमवंतकुमारस्स मेराए वचति चउसद्विजोयणाणि, सुत्तादेसेण वा बावत्तरिं" इति चूर्णिकृतः॥ ४ एवोत्कृष्टोऽधः क्षेत्रावग्रहो द्रष्टव्यः, तद भा० ॥५°कमेवोत्कृष्टमधः क्षेत्रम् ॥ भा०॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy