________________
१४०
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः जिनैर्भणिता तथा लेपैषणाऽपि तस्मान्न जिनोपदिष्टः पात्रस्य लेपः । तदेतदसमीचीनम् , पात्रलेपस्य जिनरर्थत उक्तत्वात् । पात्रैषणायां हि त्रिविधं पात्रमुक्तम् , तद्यथा-यथाकृतमल्पपरिकर्म सपरिकर्म च । तत्राल्पपरिकर्मणः सपरिकर्मणश्चावश्यं लेपेन कार्यमिति सामर्थ्यादुक्तो जिनैः पात्रस्य लेपः । अन्यच्चौधनियुक्तौ प्रपञ्चेन लेपैषणाऽप्यभिहिता । तस्माद् दृष्टस्त्रैलोक्य6 दर्शिमिलेपः ॥ ४७५ ॥ यच्च वदसि आत्मोपघातादयो दोषा इति तत्र प्रत्युत्तरमाह
दोसाणं परिहारो, चोयग जयणाएँ कीरए तेसिं ।
पाते उ अलिप्पंते, ते दोसा होतऽणेगगुणा ॥ ४७६ ॥ हे नोदक ! ये दोषास्त्वया प्रागात्मोपघातादय उक्तास्तेषां परिहारो यतनया क्रियते, यतनया गच्छत आगच्छतो लेपग्रहणं च कुर्वतो न कश्चिदात्मोपघातादिको दोष इति भावः । 10 पात्रे तु अलिप्यमाने ते आत्मोपघातादयो दोषाः 'अनेकगुणाः' अनेकप्रकारा भवन्ति ॥ ४७६ ॥ कथम् ? इति चेद् अत आह
उहादीणि उ विरसम्मि भुंजमाणस्स होति आयाए ।
दुग्गंधि भायणं ति य, गरहति लोगो पवयणम्मि ॥ ४७७॥ अलेपितं किल पात्रमतीव विरसं भवति, तस्मिन् भुञानस्य विरसगन्धाघ्राणत ऊर्द्धादीनि 15 भवन्ति । ऊर्द्ध-वमनम् , आदिशब्दादरुचि-मान्द्यादिपरिग्रहः । एते आत्मनि दोषाः ।
तथा लोको भिक्षां ददानो दुर्गन्धि भाजनं दृष्ट्वा 'गर्हयति' ईदृशा एवामी पापोपचिता इति । एष प्रवचने उपघातः ॥ ४७७ ॥ यदप्युक्तम् "यक्षोल्लिखितलेपग्रहणे प्रवचनोपघातः" (गा० ४७४) तदेतत् तावदतिसूक्ष्मम् , अन्येऽपि खलु महान्तः प्रवचनोपघाता अवश्यकर्त्तव्य. तया यतनया परिहियन्ते किं पुन:षः ? इति प्रतिपादयन्नाह
पवयणघाया अन्ने, वि अस्थि ते उ जयणाएँ कीरति ।
आयमणभोयणाई, लेवे तव मच्छरो को णु ॥ ४७८॥ अन्येऽपि खलु 'आचमन-भोजनादयः' काञ्जिकेनाचमनं कायिक्या आचमनमनाचमनं वा पात्रे भोजनं मण्डल्यां भोजनमित्येवमादयः 'प्रवचनघाताः' प्रवचनोपघाताः सन्ति परं
तेऽप्यवश्यकर्त्तव्यतया 'यतनया' सागारिकरक्षणादिरूपया क्रियन्ते । एवमवश्यग्रहीतव्ये लेपे 25 यतनया तत्कालदृष्टदोषपरिहारादिलक्षणया गृह्यमाणे को नु तव मत्सरः ? नैवासौ युक्त इति ॥ ४७८ ॥ सम्प्रत्यन्यानपि पात्रालेपे दोषानाह___खंडम्मि मग्गियम्मी, लोणे दिन्नम्मि अवयवविणासो।
अणुकंपादी पाणम्मि होति उदगस्स उ विणासो ॥ ४७९ ॥ अलेपिते पात्रे कसिँश्चित् प्रयोजने समापतिते खण्डं याचितम् , तया चाऽविरत्या खण्ड30 मिति भ्रान्त्याऽनाभोगेन सैन्धवादि लवणं दत्तम् , तस्मिंश्चाले पिते भाजने केचिदवयवा
अद्याप्यम्लाः सन्ति, ततस्तैरवयवैस्तस्य लवणस्य पृथिवीकायस्य विनाशः । तथा पानके याचिते कयाचिदविरत्या एते उदकस्य खादं न जानन्तीत्यनुकम्पया आदिशब्दादनाभोगेन वा उदकं दीयते तत एवमुदकस्याम्लावयवसंस्पर्शतो विनाशः ॥ ४७९ ।।। १ उड्डाती विरसम्मि ता० ॥ २ अलिप्ते पात्रे मो० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org