________________
भाष्यगाथाः ४६९-७५] पीठिका।
१३९ मकथयित्वा कथनेऽपि 'अधिगतस्तदों न वा' इत्यपरिज्ञाय अधिगतमपि 'सम्यक् श्रद्दधाति न वा' इत्यपरीक्ष्य यदि प्रेषयति तदा प्रत्येकमकथनेऽनधिगतेऽपरीक्षणे च तस्य प्रायश्चित्तं चत्वारो लघुका द्वाभ्यां लघवः, तद्यथा-तपोलघुकाः काललघुकाश्च । यत एवं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मात् सूत्रे प्राप्ते तत्रापि कथिते तत्राप्यधिगते स परीक्ष्य लेपस्यानयनाय प्रेषणीयः । एष लेपस्य कल्पिकः ॥ ४७१ ॥
अञ्जकालिय लेवं, वयंति अवियाणिऊण सब्भाव ।
ते वत्तव्या लेवो, दिडो तेलोकदंसीहिं॥ ४७२ ॥ केचित् प्रवचनस्य 'सद्भावं' रहस्यम् 'अविज्ञाय' अविदित्वा अद्यकालिकं ले पात्रस्य वदन्ति-न एष पात्रस्य लेपः सर्वज्ञैरुक्तः किन्त्वद्य कल्येऽधुनातनसूरिभिः प्रवर्तितः; ते वक्तव्याः-दृष्टः खलु पात्रस्य लेपस्त्रैलोक्यदर्शिभिः ॥ ४७२ ।। एनामेव गाथां व्याचिख्यासुः 10 प्रथमतः पूर्वार्द्व व्याख्यानयन् लेपस्य जिनानुपदिष्टत्वं भावयति
आया पवयण संजम, उवधाओ दिस्सए जओ तिविहो।
तम्हा वयंति केई, न लेवगहणं जिणा वेति ॥ ४७३ ॥ यस्माल्लेपे गृह्यमाणे त्रिविध उपघातो दृश्यते, तद्यथा-आत्मनः प्रवचनस्य संयमस्य च; तस्मात् केचिद् वदन्ति-न लेपग्रहणं जिना ब्रुवते; न खलु भगवन्तः सावधं वचनमुच्चरन्ति 15 ॥ ४७३ ॥ कथं पुनरात्म-प्रवचन-संयमोपघातः ? इत्यत आह
रहपडण उत्तमंगादिभंजणा घट्टणे य करपातो। अह आयविराहगया, जक्खुल्लिहणे पवयणम्मि ॥ ४७४ ॥ गमणाऽऽगमणे गहणे, तिहाणे संजमे विराहणया ।
महि सरि उम्मुग हरिया, कुंथू वासं रयो व सिया ॥ ४७५ ॥ 20 रथस्य-शकटस्य पतने उत्तमाङ्गादेः शरीरावयवस्य भङ्गः, तथा भाजनस्य लेपे दत्ते घट्टकेन तद दत्तलेपं पात्रं घट्टयतः 'करघातः' करस्य पीडा, एषा आत्मविराधना । यक्षाः-श्वानस्तैः शकटस्याक्षोऽनेकधा जिह्वयोल्लिखितः, साधुरपि च तत्र लेपं गृह्णाति, तमपि च भोजनयोग्ये पात्रे दास्यति ततो 'यक्षोल्लिखने' यक्षोल्लिखितलेपग्रहणे 'प्रवचने' प्रवचनस्योपघातः ।। ४७४ ॥
तथा 'त्रिस्थाने' त्रिषु स्थानेषु च 'संयमे' संयमस्य विराधना, तद्यथा-लेपग्रहणाय गमने 25 लेपं गृहीत्वा पुनर्वसतावागमने लेपग्रहणे च । तथाहि-गच्छतामागच्छतां तत्र वा मह्याःसचित्तपृथिवीकायस्य विराधना, सरित्-नदी तत्र गमने आगमने चाऽप्कायविराधना, तथा कदाचित् तैः शाकटिकैरग्निकाय उद्दीपितो भवेत् तत्र कथमप्यनुपयोगत उल्मुकचालनेऽमिकायविराधना, यत्रामिस्तत्र वायुरिति वायुविराधना, हरितकायाक्रमणे वनस्पतिकायविराधना, तथा लेपे कुन्थ्वादयः पाणा लमा भवेयुस्ततस्तद्रहणे त्रसकायविराधना, तथा गमने 30 आगमने तत्र वा वर्ष पतेत् रजो वा सचित्तवातोद्भूतमापतितं स्यात् ततस्तद्विराधनाऽपि तत्रावसेया । तदेवं यत आत्म-प्रवचन-संयमानामुपघातो न च यथा पिण्डैषणा पात्रैषणा वा
१ अविभाविऊण ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org