SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ लेपकल्पिक द्वारम् सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे जहियं पुण सागारिय, धम्मादिपएस तहिय निस्साए । वोसिरइ एय मीसं, भणिय समासेण थंडिल्लं ॥ उक्तं मिश्रं स्थण्डिलम् । तदभावेऽपवादतः सचित्तमपि गन्तव्यम् । तदप्यनापातासंलोकादिभेदतश्चतुःप्रकारम् । तस्यापि च त्रयः पन्थानः, तद्यथा - अचित्तो मिश्रः सचित्तश्च 5 ॥ ४६८ ॥ तत्र येन क्रमेण गन्तव्यं तं क्रममाह १३८ 15 अश्चित्तेण सचित्तं, मीसेण सचित्त छकमीसेण । सच्चित्त छक्कणं, सचित्त चउभंगिय पदेसे ॥ ४६९ ॥ सचित्तमपि स्थण्डिलं चतुर्भङ्गिकम् । तत्र प्रथमतोऽनापातासंलोकं गन्तव्यम्, तदभावे द्वितीयम्, तदभावे तृतीयम्, तदभावे चतुर्थमपि । तत्र यतना प्रागेवोक्ता । तत्र च प्रथमतोऽ10 चित्तेन पथा गन्तव्यम् । तदभावे तत् सचित्तं मिश्रेम पथा गम्यम्, केन मिश्रेण ? इत्यत आह–‘षट्कमिश्रेण' षड्जीव निकायमिश्रेण । तस्यासम्भवे सचित्तेन पथा सचित्तं गन्तव्यम्, केन सचित्तेन ? 'षट्केन' षड्जीवनिकायैः । अत्रापि मात्रकैर्यतना कर्त्तव्या । मात्रकाणामभावे व्युत्सर्गे परिष्ठापने वा सागारिकसम्भवे धर्मास्तिकायादिप्रदेशानां निश्रा कर्त्तव्या । उक्तञ्च - यि मीसे जयणा, सेव सचित्ते वि होइ कायवा । मत्तादि अपरिसेसा, जा धम्मादीपएसा उ ॥ - तदेवमुक्तं स्थण्डिलम् । इदानीमेतस्य यः कल्पिकस्तमभिधित्सुराह [ अनुयोगाधिकारः पढिय सुय गुणियम गुणिय, धारमधार उवउत्तों परिहरति । आलोयाऽऽयरियादी, आयरिओ विसोहिकारो से || ४७० ॥ यस्मादजानतः प्रायश्चित्तं तस्माद् येन सप्तसप्तकादिसूत्रं पठितं पाठतः श्रुतमर्थतः तच्च 20 'गुणितम्' अभ्यस्तं वा स्यादगुणितं वा धारितं वा स्यादनवधारितं वा तथापि यः उपयुक्तः सन् स्थण्डिलं 'परिहरति' उक्तप्रकारेणोपयुक्तः परिभोगयति स विचारे कल्पिकः । तथा तेन स्थण्डिलसूत्रेण पठितेन वा श्रुतेन वा गुणितेन वा अगुणितेन वा धारितेन वा अधारितेन वा उपयुक्तो वाऽनुपयुक्तो वा यां विराधनां करोति तामाचार्यादेरालोचयति । प्रथमत आचार्यस्य पुरत आलोचयति, तदभावेऽन्यस्याप्युपाध्यायादेरालोचिते च 'से' तस्य 'विशोधिकारः ' 25 प्रायश्चित्तप्रदानेन शुद्धिकर्त्ता आचार्यः । किमुक्तं भवति ? - येद् आचार्याः प्रायश्चित्तं दद तेन स शुद्धि मापद्यते ॥ ४७० ॥ गतं विचारद्वारम् । अधुना लेपद्वारमाह-पात्रले पनिरूपणा १ चतुर्विधम् भा० ॥ २ यदा आचा° त० डे० ॥ स्कन्धे षष्ठमध्ययनम् ॥ अप्पत्ते अकहित्ता, अण हिगयऽपरिच्छणे य चउगुरुका । दोहि गुरु तवगुरुगा, कालगुरू दोहि वी लहुगा ॥ ४७१ ॥ 30 'सूत्रे' पात्रैषणालक्षणे अप्राप्ते यदि लेपस्याऽऽनयनाय प्रेषयति तदा तस्य प्रायश्चित्तं चत्वारो गुरुका: [ द्वाभ्यां गुरुकाः, ] तद्यथा - तपोगुरुकाः कालगुरुकाश्च । अथ प्राप्तेऽपि श्रुते तदर्थ ३ पात्रैषणाख्यमाचाराङ्गसूत्रे द्वितीयश्रुत Jain Education International ॥ ४६९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy