SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १३६ ___ सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः एते च त्रयो भेदा यथा पुरुषस्य तथा स्त्री-नपुंसकयोरपि द्रष्टव्याः । तेषु यतनया गन्तव्यम् ॥ ४६३ ॥ कथम् ? इत्यत आह तेण परं पुरिसाणं, असोयवादीण वच आवायं । इत्थि-नपुंसालोए, परम्मुहो कुरुकुया सा य ॥ ४६४ ॥ । 'ततः' पुरुषालोकवतः स्थण्डिलात् 'परतः' पुरुषालोकवतः स्थण्डिलस्यासति पुरुषाणामशौचवादिनाम् 'आपातम्' आपातवत् स्थण्डिलं व्रजेत् । तत्र च यतना प्रागुक्ता द्रष्टव्या । तस्याप्यसम्भवे शौचवादिनामप्यापातवद् गन्तव्यम् । तस्यासम्भवे ख्यालोके नपुंसकालोके वा गन्तव्यम् । इयमत्र भावना-प्रथमतोऽशौचवादिनीनां स्त्रीणामालोके गन्तव्यम् , तत्र गतः सन् तासां पराङ्मुख उपविशेत् , यतना च सा कुरुकुचादिका कर्त्तव्या । तस्याप्यसम्भवे 10 शौचवादिनीनामप्यालोके गन्तव्यम् । तदभावे नपुंसकानामशौचवादिनामालोके । तस्यासम्भवे शौचवादिनामप्यालोके । यतना सर्वत्र सैव ॥ ४६४ ॥ तेण परं आवायं, पुरिसेयर-इत्थियाण तिरियाणं । तत्थ वि य परिहरेजा, दुगुछिए दित्तऽदित्ते य ॥ ४६५॥ 'ततः परं' शौचवादिनामपि नपुंसकानामालोकस्यासम्भवे 'पुरुषेतरस्त्रीणां' पुरुष-नपुंसक10 स्त्रीणां तिरश्चामापते व्रजेत् , तत्रापि दृप्तानदृप्तांश्च जुगुप्सितान् परिहरेत् , अपरिहारे यतनां कुर्यात् । अयमत्र भावार्थः-शौचवादिनां नपुंसकानामालोकासम्भवे तिर्यक्पुरुषाणामदुष्टानामापाते व्रजेत् , तस्यासम्भवे दुष्टानामापाते व्रजेत् , तत्रेयं यतना-दण्ड-हस्ता वारंवारेण व्युत्सृजन्ति । उक्तञ्च तेण परं पुरिसाणं, असोयवादीण वच्च आवायं । पच्छित्थि-नपुंसाणं, आलोय परम्मुहा कुरुया ॥ पच्छा तिरिपुरिसाणमदुट्ठ-दुट्ठाण वच आवायं । दुढेसु दंड-हत्था, वारंवारेण वोसिरणं ॥ तस्याप्यभावे तिर्यक्स्त्रीणामजुगुप्सितानामापातं व्रजेत् । तदसम्भवे जुगुप्सितानामप्यापातम् । तदभावे तिर्यमपुंसकानामजुगुप्सितानामापातम् । तदभावे जुगुप्सितानामप्यापातम् , 25 केवलं तत्र तथोपविशन्ति यथा परस्परं सर्वे सर्व प्रेक्षन्ते ॥ ४६५॥ तत्तो इत्थि-नपुंसा, तिविहा तत्थ वि असोयवाईणं । तहियं च सद्दकरणं, आउलगमणं कुरुकुया य ॥ ४६६ ॥ ततः स्त्री-नपुंसकानामापाते गन्तव्यम् । ते च स्त्री-नपुंसकास्त्रिविधाः, तद्यथा-प्राकृताः कौटुम्बिका दाण्डिकाश्च । ते च प्रत्येकं द्विधा-शौचवादिनोऽशौचवादिनश्च । तत्र प्रथमतोऽशौच30 वादिनामापाते वजनीयम् । तत्र च शब्दकरणमाकुलगमनं कुरुकुचा च कार्या । इयमत्र भावना-जुगुप्सितानामपि नपुंसकानामापातवतोऽसम्भवे मनुष्यस्त्रीणामशौचवादिनीनामापाते गन्तव्यम् , केवलं स्थविरसहितैः प्रविशद्भिश्च परस्परं महान्तः शब्दा उच्चारणीया येन तास्तान् १ दण्डित मो० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy