________________
5 अनुज्ञा
भाष्यगाथाः ४६०-६३] पीठिका । जीवितायपरोपयतः षड्गुरु, अत्र पञ्चभिर्दिवसैर्मूलम् । चतुरिन्द्रियं सङ्घयतः षड्लघु, परितापयतः षड्गुरु, जीविताट्यपरोपयतो मासिकच्छेदः, अत्र चतुर्भिर्दिवसैर्मूलम् । पञ्चेन्द्रियं सङ्घयतः षड्गुरु, परितापयतः छेदः, अपद्रावयतो मूलम् , अत्र द्वयोर्दिवसयोरनवस्थाप्यम् , त्रिपु दिवसेषु पाराञ्चितम् ॥ ४६१ ।। गतं वर्जनाद्वारम् , अधुनाऽनुज्ञाद्वारमाहपढमिलगस्स असती, वाघातो वा इमेहि ठाणेहिं ।।
द्वारम् पडिणीय तेण वाले, खेत्तुदग निविट्ठ थी अपुमं ॥ ४६२ ॥ __ प्रथममेव प्रथमिल्लुकम् , प्राकृतत्वात् स्वार्थे इल्लुकप्रत्ययः । प्रथमम्-अनापातासंलोकलक्षणं स्थण्डिलं तत् नास्ति ततस्तस्य प्रथमस्याभावे । अथवा सतोऽप्येभिः स्थानाघातो भवेत् । तान्येव स्थानान्याह-"पडिणीय" इत्यादि । प्रत्यनीकस्तत्र तिष्ठति । स्तेना वा पथि द्विविधाः, तद्यथा-उपकरणस्तेनाः शरीरस्तेना वा । 'व्याला वा' तत्र सर्पादयो विद्यन्ते । क्षेत्रं वा तत्र 10 जातम् । उदकेन वा तत् स्थण्डिलमस्तृितम् । ग्रामो नजिका स्कन्धावारो वा तत्र निविष्टः। स्त्री नपुंसको वा तत्र मैथुनार्थी संयतानागच्छतः प्रतीक्षते ॥ ४६२ ॥
पढमासति वाघाए, पुरिसालोगम्मि होति जयणाए।
मत्तग अपमजण डगल कुरुअ तिविहे दुविहमेदो ॥ ४६३ ॥ एवं प्रथमस्य स्थण्डिलस्याभावे व्याघाते वा द्वितीयं स्थण्डिलमनापातसंलोकवद् गन्तव्यम् । 15 तत्र संयतानां साम्भोगिकानां संविमानामालोके गन्तव्यम् , तदभावे असाम्भोगिकानामपि । तत्रापरिणताः पूर्वमेव ग्राहयितव्याः, यथा-केषाञ्चिदाचार्याणां विसदृश्यः सामाचार्यः ततो यूयं मा तान् वितथसामाचारीकान् दृष्ट्वा प्रतिनोदयेत, तेऽपि यदि नोदयन्ति तर्जुदासीनाः तिष्ठथ (तिष्ठत) । एवमसङ्खडादयो दोषाः परिहृता भवन्ति । असाम्भोगिकानामप्यापातस्यासम्भवे यत्र पार्श्वस्थादीनामालोकस्तत्र गच्छन्ति । तस्याप्यभावे यत्र पार्श्वस्थादीनामापातस्तत्र 20 व्रजन्ति । तत्र क्षुल्लकादयोऽपरिणताः पूर्वं ग्राहयितव्याः, यथा-एते निर्माणो जिनाज्ञाप्रकोपिनो वितथमाचरन्ति, तद् मा यूयमेतेषां चेष्टितं चित्ते कुरुत यथा 'एतत् सुन्दरम्' इति । संयत्यापातवच्च सर्वप्रयत्नेन परिहरेत् , अन्यथा कृतसङ्केतका अत्र समागच्छन्तीति शङ्कादयः आत्म-परोभयसमुत्थाश्च दोषाः सम्भवन्ति । एषा खपक्षे यतना । सम्प्रति परपक्षेsभिधीयते । तत्र-पार्श्वस्थाद्यापातवतोऽसम्भवे "पुरिसालोगम्मि होति जयणाए" इति 'पुरु-25 षालोके' पुरुषालोकवति गन्तव्यम् , तत्र यतनया भवति कर्त्तव्यमाचमनादि । तामेव यतनामाह-"मत्तग अपमज्जण डगल कुरुग" ति प्रत्येकं मात्रकं ग्रहीतव्यम् , प्रत्येकं च प्रचुर द्रवम् , डगलकानां चाप्रमार्जनम्-न तानि डगलकानि प्रमाय॑न्ते हीलनादोषसम्भवात् , कुरुकुचाश्याचमनानन्तरं कर्तव्या । "तिविहे दुविहभेओ" इति, त्रिविधे प्रत्येकं द्विविधो भेदो द्रष्टव्यः । इयमत्र भावना-त्रिविधः परपक्षः, तद्यथा-पुरुषः स्त्री नपुंसकः । एकैकः पुन-30 द्वैिधा-शौचवादी अशौचवादी च, अथवाऽन्यथा प्रत्येकं द्विभेदता-श्रावकोऽश्रावकश्च । अथवा त्रिविधो भेदो नाम स्थविरो मध्यमस्तरुणश्च, यदि वा प्राकृतः कौटुम्बिको दण्डिकश्च । १°तो तस्सिमेहिं ता० ॥ २ °मावृतम् त० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org