________________
१३४
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः तदपि चाचमनमदूरे करोति । यदि पुनर्दूरे आचमति तत उड्डाहः । कश्चिद् दृष्ट्वा चिन्तयेत्-अनिलेप्य पुते गत एष इति ॥ ४५९ ॥ सम्प्रत्यालोके प्रायश्चित्तविधिमाह
आलोगं पि य तिविहं, पुरिसि-त्थि-नपुंसकं च बोधव्वं ।
लहुगा पुरिसालोए, गुरुगा य नपुंस-इत्थीसु ॥ ४६०॥ । आलोकमपि च 'त्रिविधं' त्रिप्रकारम् , तद्यथा-पुरुषालोकं ख्यालोकं नपुंसकालोकम् । गाथायां पदैकदेशे पदसमुदायोपलक्षणानि । तत्र पुरुषालोके प्रायश्चित्तं चत्वारो लघुकाः, ख्यालोके नपुंसकालोके च चत्वारो गुरुकाः ॥ ४६० ॥ तदेवमचित्तं स्थण्डिलमचित्तेन पथा भणितम् । अथ सचित्तेन मिश्रेण वा यदा तद् गच्छति तदेदं प्रायश्चित्तम्
छकाय चउसु लहुगा, परित्त लहुगा य गुरुग साहारे। 10 संघट्टण परियावण, लहु गुरुगऽतिवायणे मूलं ॥ ४६१॥
'षटकायाः पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाः । तेषां मध्ये 'चतुषु पृथिव्यप्तेजोवायुरूपेषु सङ्घटनादिषु लघुकाः प्रायश्चित्तम् , 'परित्ते' प्रत्येकवनस्पतिकायेऽपि च लघुकाः, “साहारे" अनन्तवनस्पतिकायिके सङ्घटनादिषु गुरुकाः, तथा द्वीन्द्रियादीनां सङ्घट्टने परितापने च यथायोगं लघुका गुरुकाश्च प्रायश्चित्तम् , 'अतिपातने' विनाशे मूलम् । इयमत्र भावना-पृथि16 वीकायं सङ्घट्टयति मासलघु, परितापयति मासगुरु, अपद्रावयति जीविताद् व्यपरोपयतीत्यर्थः चतुर्लघु । एवमप्काये तेजस्काये वायुकाये प्रत्येकवनस्पतिकाये च द्रष्टव्यम् । उक्तश्च
छक्कायादिमचउसू , तह य परित्तम्मि होति वणकाए ।
लहु-गुरुमासो चउलहु, घट्टण परिताव उद्दवणे ॥ एतत् प्रायश्चित्तमेकैकस्मिन् दिवसे सङ्घट्टनादिकरणे । यदि पुनद्वौं दिवसौ पृथिव्यादि 20 सङ्घट्टयति तदा मासगुरु, परितापयति चतुर्लधु, जीविताद् व्यपरोपयति चतुर्गुरु । त्रीन् दिव
सान् निरन्तरं पृथिव्यादीन् सट्टयति चतुर्लघु, परितापयति चतुर्गुरु, अपद्रावयति षड्लघु । निरन्तरं चतुरो दिवसान् सङ्घट्टने चतुर्गुरु, परितापने षड्लघु, अपद्रावणे षड्गुरु । पञ्च दिवसान निरन्तरं पृथिव्यादीनां सङ्घट्टने षड्लघु, परितापने षड्गुरु, अपद्रावणे मासिक
च्छेदः । षड् दिवसान् निरन्तरं सङ्घट्टने षड्गुरु, परितापने मासिकच्छेदः, अपद्रावणे चतु25 सिच्छेदः । सप्त दिवसान् निरन्तरं पृथिव्यादीनां सङ्घट्टने मासिकच्छेदः, परितापने चतु
र्मासिकः, अपद्रावणे पाण्मासिकः । अष्टौ दिवसान् निरन्तरं पृथिव्यादीनां सङ्घट्टने चातुर्मासिकच्छेदः, परितापने पाण्मासिकः, अपद्रावणे मूलम् । उक्तञ्च
दोहिं दिवसेहिं मासगुरुए आढवेत्ता चउगुरुए ठाति जाव अट्ठहिं सपयं ति।
अनन्तवनस्पतिकं यदि सङ्घट्टयति तदा मासगुरु, परितापयति चतुर्लघु, अपद्रावयति 30 चतुर्गुरु । द्विदिवसादिनिरन्तरसङ्घटनादिषूतरोत्तरैकैकस्थानवृद्धितः सप्तभिर्दिनैर्मूलम् । द्वीन्द्रियं सङ्घट्टयति चतुर्लघु, परितापयति चतुर्गुरु, जीविताद् व्यपरोपयति षड्लघु । अत्र यादिदिवसनिरन्तरसट्टनादिषु षनिर्दिवसैर्मूलम् । त्रीन्द्रियं सट्टयतश्चतुर्गुरु, परितापयतः षड्लघु,
१ गाथेयं चूर्णौ नास्त्यादृता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org