SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४५३-५९] पीठिका | १३३ तथा यतः पवनस्ततः पृष्ठं न कुर्यात्, मी लोको ब्रूयात् - अर्घन्त्येतदेत इति, नाशिकायां चार्शांसि मा भूवन् । तथा ग्रामस्य सूर्यस्य च पृष्ठं न दातव्यम्, लोकेऽवर्णवादसम्भवान् । तथाहि - सूर्यस्य ग्रामस्य वा पृष्ठदाने लोको ब्रूते न किञ्चिज्जानन्त्येते यल्लोकोदयोतक - रस्यापि सूर्यस्य यस्मिन् ग्रामे स्थीयते तस्यापि च पृष्ठं ददतीति । तथा संसक्तमहणिश्छायायां व्युत्सृजेद् येन द्वीन्द्रियविनाशो न भवति । तथा 'त्रिकृत्वः' त्रीन् वारान् प्रमार्ण्य उपलक्षणमेतत् प्रत्युपेक्ष्य च व्युत्सृजेत् । तत्राप्रत्युपेक्षणेऽप्रमार्जने दुष्प्रत्युपेक्षणे दुष्प्रमार्जने च प्रायचित्तं प्रागुक्तम् । तथा " यस्यावग्रहः सोऽनुजानीयात् " इति अनुज्ञाय व्युत्सृजेद् आचमेद्वा । एष गाथार्थः ॥ ४५६ ॥ साम्प्रतमेनामेव विवरीपुराह उत्तर पुव्वा पुजा, जम्माऍ निसीयरा अभिवति । घाणारसा य पवणे, सूरिय गामे अवन्नो उ ॥ ४५७ ॥ 10 उत्तरा पूर्वा च लोके पूज्या, ततो दिवा रात्रौ च पूर्वस्यामुत्तरस्यां वा पृष्ठं न दद्यात् । तथा याम्या -दक्षिणा तस्यां रात्रौ 'निशाचराः ' देवाः 'अभिपतन्ति' समागच्छन्ति, ततस्तस्यां रात्रौ पृष्ठं न दद्यात् । तथा यतः पवनस्ततः पृष्ठकरणेऽशुभगन्धत्राणि ः नाशिकायां चाशस्युपजायन्ते, तस्मात् पवनस्यापि पृष्ठं न कर्तव्यम् । सूर्यस्य ग्रामस्य च पृष्ठकरणे अवर्णो लोकमध्ये यथाऽभिहितः प्राक्, ततस्तयोरपि न दातव्यं पृष्ठमिति ॥ ४५७ ॥ "छायाए" ( गाथा ४५६ ) इति व्याख्यानार्थमाह संसत्तग्गहणी पुण, छायाए निग्गयाऍ वोसिरइ । छायाऽसति उहम्मि वि, वोसिरिय मुहुत्तगं चिट्ठे ॥ ४५८ ॥ संसक्ता द्वीन्द्रियैर्ग्रहणिः–कुक्षिर्यस्यासौ संसक्तग्रहणिः, स द्वीन्द्रियरक्षणार्थं छायायां वृक्षादेर्निर्गतायां व्युत्सृजति । अथ च्छायाऽद्यापि न निर्गच्छति मध्याह्ने एव संज्ञाप्रवृत्तेः, तत - 20 श्छायायाः असति-अभावे उष्णेऽपि खशरीरच्छायां पुरीषस्य कृत्वा व्युत्सृजति, व्युत्सृज्य च 'मुहूर्तकम्' अल्पं मुहूर्तं तथैव तिष्ठति, येनैतावता कालेन स्वयोगतः परिणमन्ति । अन्यथोप्णेन महती परितापना स्यात् ॥ ४५८ ॥ अथ व्युत्सृजन् खोपकरणं कथं धरति : इत्यत आह उवगरणं वामगऊरुगम्मि मत्तो य दाहिणे हत्थे । तत्थऽण्णत्थ व पुंसे, तिहिं आयमणं अदूरम्मि || ४५९ ॥ 'उपकरणं' दण्डकं रजोहरणं च वामे ऊरौ स्थापयति, मात्रकं दक्षिणहस्ते क्रियते, डगलकानि च वामहस्तेन धरणीयानि । ततः संज्ञां व्युत्सृज्य तत्रान्यत्र वा प्रदेशे डगलकैः पुतं 'पुंसयति' रुक्षयति । पुंसयित्वा त्रिभिः नावापूरकैः चुलुकैरित्यर्थः 'आचमनं ' निर्लेपनं करोति । 30 उक्तञ्च- तिहिं नावाए पूरएहिं आयमइ निल्लेवेति वा । नावापूरओ नाम पसती इति । 15 १ " लोगो भणति - एयं चेव अग्घाति, अरिसाओ वा खुब्भंति" इति चूर्णिः ॥ २ निसियराऽणिसं देवा ता• ॥ ३ च मुहूर्त्त तथैव भा० मो० विना ॥ For Private & Personal Use Only Jain Education International 25 www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy