SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ वर्जना द्वारम् 5 सर्वासां प्राकृतादिभेदभिन्नानां स्त्रीणामापाते सर्वनपुंसकापाते च तथा भावासन्ने चिलसहिते च स्थण्डिले व्युत्सृजतः प्रत्येकं चत्वारो गुरुकाः । प्रत्येक बीज सङ्कुले स्थण्डिले लघूनि पञ्चरात्रिन्दिवानि, अनन्त बीजसङ्कुले गुरुकाणि । 'शेषेषु' अशुद्धेषु स्थण्डिलेषु मासलघु । यच्चान्यदापद्यते तदपि सर्वमाप्नोति । यत्रासामाचारीकरणं तत्रापि मासलघु ॥ ४५३ ॥ १३२ सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनुयोगाधिकारः लघुकाः। तथा सर्वमनुष्यपुरुषापाते सर्वतिर्यक्पुरुषापाते च प्रत्येकं 'त एव' चत्वारो लघवः । सर्वग्रहणं मनुष्येषु कौटुम्बिकादि भेदपरिग्रहार्थम् ॥ ४५२ ॥ तिर्यक्षूत्कृष्टादिभेदसङ्ग्रहार्थमाहइत्थि नपुंसावाए, भावासने बिले य चउगुरुगा । पण लहुयं गुरुगं, बीए सेसेसु मासलहुं ।। ४५३ ॥ अपमजणा अपडिलेहणा य दुपमञ्जणा दुपडिलेहा । तिय मासिय तिय पणगं, लहु काल तवे चरिम सुद्धो ॥ ४५४ ॥ संज्ञां व्युत्त्रष्टुकामो न प्रत्युपेक्षते न प्रमार्जयति मासलघु तपोगुरु काललघु, न प्रत्युपेक्षते प्रमार्जयति मासलघु कालगुरु तपोलघु, न प्रमार्जयति प्रत्युपेक्षते मासलघु द्वाभ्यां लघु । एवं 'त्रिके' त्रिषु स्थानेषु मासिकं लघु कालेन तपसा चोक्तप्रकारेण विशेषितम् । अथ प्रत्युपेक्षते प्रमार्जयति तत्र दुष्प्रत्युपेक्षिते दुष्प्रमार्जिते रात्रिन्दिवपञ्चकं लघु तपोगुरु काललघु, दुष्प्रत्यु16 पेक्षिते सुप्रमार्जिते रात्रिन्दिवपञ्चकं लघु तपोलघु कालगुरु, सुप्रत्युपेक्षिते दुष्प्रमार्जिते रात्रिदिपञ्चकं लघु द्वाभ्यां लघुकम् । एवं 'त्रिके' त्रिषु स्थानेषु पञ्चकं कालेन तपसा चोक्तप्रकारेण विशेषितम् । 'चरमे' सुप्रत्युपेक्षितं सुप्रमार्जितमित्येवं रूपे भने 'शुद्धः' न प्रायश्चित्तभाक् ।। ४५४ ।। 10 खुड्डो धावण झुसिरे, तिक्खुत्तो अपडिलेहणा लहुगो । घर-वावि- वच्च-गोवय-ठिय-मल्लगछडणे लहुगा ॥ ४५५ ॥ इयमपि गाथाऽन्याचार्यपरिपाटिसूचिका ततो न पुनरुक्तता नाऽपि विरोधः, मतान्तरत्वात् । 'क्षुल्लकं' स्तोकं यदि 'धावनं' प्रलोठनमित्यर्थः तत्र, तथा झुषिरे स्थण्डिले, तथा त्रिकृत्वोsपत्युपेक्षणायां प्रत्येकं प्रायश्चित्तं लघुको मासः । तथा यदि गृहे संज्ञां व्युत्सृजति, वाप्याम्, वर्चो गृहे वर्चस उपरि वा, गोष्पदे वा, ऊर्द्धस्थितो वा, तथा मल्लके व्युत्सृज्य यदि परिष्ठाप25 यति तदा सर्वेष्वेतेषु स्थानेषु प्रायश्चित्तं प्रत्येकं चत्वारो लघवः ॥ ४५५ ॥ गतमपायद्वारम् । इदानीं वर्जनाद्वारमाह 20 दिसि - पवण - गाम- सूरिय - छायाऍ पमजिऊण तिक्खुत्तो । जस्सुग्गहो ति काऊण वोसिरे आयमे वा वि ॥ ४५६ ॥ उत्तरदिक् पूर्वदिक् च लोके पूज्या, ततस्तस्याः पृष्ठप्रदाने लोकमध्येऽवर्णवादो भवति, 30 वानमन्तरं वा किञ्चिन्मिथ्यादृष्टि कुप्येत्, तथा च सति जीवितव्यस्य विनाशः; तस्माद् दिवा रात्रौ च पृष्ठं पूर्वस्याम्, उत्तरस्यां तु दिवा, दक्षिणस्यां दिशि रात्रौ निशाचराः सञ्चरन्ति ततस्तस्यां पृष्ठ रात्रौ वर्जयेत् । उक्तञ्च - Jain Education International उभे मूत्र - पुरीषे तु, दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतश्चैव तथा चाऽऽयुर्न हीयते ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy