________________
पीठिका।
भाष्यगाथाः ४४६-५२]
१३१ जघन्यं विस्तीर्ण 'चतुरस्रं' चतसृष्वपि दिक्षु हस्तायामम् , उत्कृष्टं 'योजनद्विषट्कं' द्वादश योजनानि, तच चक्रवर्तिस्कन्धावारनिवेशे प्रतिपत्तव्यम् । दूरावगाढमाह-यत्राधस्तात् 'चतुरङ्गुलप्रमाणमचित्तं' चत्वार्यङ्गुलान्यचित्ता भूमिः तद् जघन्यं दूरमवगाढम्, अर्थात् पञ्चाङ्गुलप्रभृति. कमचित्तं यस्याधस्तात् तद् उत्कृष्टं दूरमवगाढम् ॥ ४४९॥ साम्प्रतमासन्नमाहदवासनं भवणाइयाण तहियं तु संजमा-ऽऽयाए ।
6 आसन
स्थण्डिलम् आया-पवयण-संजमदोसा पुण भावमासन्ने ॥ ४५०॥ आसन्नं द्विविधम्-द्रव्यतो भावतश्च । तत्र द्रव्यासन्नं भवनादीनां निकटम् , आदिग्रहणाद् देवकुलानां ग्रामस्य क्षेत्रस्य पथो वृक्षस्य च परिग्रहः । यस्य हि वृक्षस्य हस्तिपदप्रमाणः स्कन्धस्तस्य समन्ततो हस्तो वर्जयितव्यः । तत्र यदि द्रव्यासन्ने व्युत्सृजति ततः संयमे आत्मनि च विराधना । तत्र यद् गृहादीनामासन्नं तत् स्थण्डिलं परित्यज्यान्यत्र स्थण्डिलं कुर्युः, 10 अथवा पानीयेन तत् प्रक्षालयेयुः ततः संयमविराधना । आत्मविराधना पिट्टनादिभावात् । भावासन्नं नाम तावत् तिष्ठति यावत् संज्ञा मनाग नागच्छति, ततोऽनधिसहः स्थण्डिलं गन्तुमशक्नुवन् अस्थण्डिले भवनादीनां वा प्रत्यासन्ने व्युत्सृजेत् , तत्र चाऽऽत्मविराधना संयमविराधना च प्राग्वत् । अथास्थण्डिलमिति कृत्वा सागारिको वा तिष्ठतीति संज्ञां धारयत्यात्मविराधना, मरणस्य ग्लानत्वस्य वाऽवश्यम्भावात् ; अनधिसहेन च सता तेन लोकपुरतोऽस्थाने 15 संज्ञाव्युत्सर्गे पुनर्जवादिलेपने वा प्रवचनोपघातः ॥ ४५०॥ सबिले त्रसप्राण-बीजोपेते दोषानाहहोति विले दो दोसा, तसेसु बीएसु वा वि ते चेव ।
सबिलं
जसप्राण. संजोगतो य दोसा, मूलगमा होति सविसेसा ॥४५१॥
बीजसबिले संज्ञां व्युत्सृजतो द्वौ दोषौ, तद्यथा-आत्मविराधना संयमविराधना च । तत्र यदा 20 हितं च बिले प्रविशन्त्या संज्ञया प्रश्रवणेन तद्गता जीवा बाध्यन्ते तदा संयमविराधना, सर्पादिभक्षणे स्थण्डिलम् आत्मविराधना । त्रसेषु बीजेषु च 'तावेव' द्वौ दोषौ संयमा-ऽऽत्मविराधनालक्षणौ । तत्र त्रसेषु बीजेषु च प्राणव्यपरोपणात् संयमविराधना सुप्रतीता । त्रसेष्वात्मविराधना तेभ्य उपद्रवसम्भवात् , बीजेष्वात्मविराधना बीजकोशावयवानामतितीक्ष्णानां पदेषु लमतः (लगनतः) पादप्रलोटनतः पतनतो वा । तदेवमेकैकस्मिन् वर्जनीये स्थण्डिले दोषा उक्ताः । अस्माच्च 25 'मूलगमाद्' एककसंयोगरूपाद् द्विक-त्रिकादिपदानां संयोगतः 'सविशेषाः' बहु-बहुतरका [दोषाः] भवन्ति ज्ञातव्याः-द्विकसंयोगे द्विगुणाः त्रिकसंयोगे त्रिगुणा यावद् दशसंयोगे दशगुणा इति ॥ ४५१ ॥ सम्प्रति प्रागुक्तमपि प्रायश्चित्तमन्याचार्यपरिपाट्या मनाग विशेषप्रदर्शनार्थतया च पुनराहपंथम्मि य आलोए, सिरम्मि तसेसु चेव चउलहुगा।
30 पुरिसावाए य तहा, तिरियावाए ये ते चेव ॥ ४५२ ॥ पथ आसन्ने पुरुषाणामालोके झुषिरे त्रससडले च संज्ञां व्युत्सृजतः प्रायश्चित्तं चत्वारो १य तह चेव ता. विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org