________________
भाष्यगाथाः १३२-३९]
पीठिका।
गतं चतुर्थं स्थण्डिलम् , इदानीं तृतीयमापातवदसंलोकमधिकृत्य दोषानाह--
आयसमुत्था तिरिए, पुरिसे दव कलुस असति उड्डाहो ।
आयोभय इत्थीसुं, अतिति णिते य आसंका ॥ ४३६ ॥ तिर्यगापाते आत्मसमुत्था दोषाः, तद्यथा-स्त्रीणां नपुंसकानां चापाते मैथुनाशकादयो दोषाः । दृप्तानां तिर्यक्पुरुषाणामापाते आत्मन उपघातः । तथा 'पुरुषे' मनुष्यपुरुषापाते द्रवे० कलुषे असति वा प्रवचनस्योड्डाहः । तथा स्त्रीषु चशब्दान्नपुंसकेप्वागच्छत्यु गच्छत्सु च. 'आत्मोभयविषया' आत्मोभयग्रहणं परस्योपलक्षणं आत्म-परोभयविषया आशङ्का । सा च प्रागेव भाविता ॥ ४३६ ॥
आवायदोस तइए, बिइए संलोयतो भवे दोसा।
ते दो वि नत्यि पढमे, तहिं गमणं तत्थिमा मेरा ॥ ४३७॥ 10 तृतीये स्थण्डिले आपातदोषः, द्वितीये च संलोकतो दोषा भवन्ति ते वेदितव्याः । ते च. 'द्वयेऽपि' आपातदोषाः संलोकदोषाश्च प्रथम स्थण्डिले न सन्ति ततस्तत्र गमनं विधेयम् । तत्रेयं मर्यादा ॥ ४३७ ॥ तामेवाह
कालमकाले सन्ना, कालो तइयाएँ सेसगमकालो।
पढमा पोरिसि आपुच्छ पाणगमपुस्फिअण्णदिसि ॥ ४३८ ॥ 15 द्विविधा संज्ञा, तद्यथा-कालेऽकाले च । तत्र काले तृतीयस्यां पौरुभ्याम् , 'शेषक' सर्वमपि प्रातःप्रभृतिकमकालः । तत्र तावदकालसंज्ञायां विधिरुच्यते 'कथं गन्तव्यम् ?'-तत्र यदि प्रथमायां पौरुप्यां भवेत् तदा पात्रमुद्राह्य पानकनिमित्तं व्रजति; अथ नोद्राहयति पात्रं ततो लोको जानीयात् , यथा-एष बहिर्गमननिमितं पानीयं गृह्णाति, ततश्चतुर्थरसिकं न दद्यात् । अपि चोद्राहिते पात्रेऽयमधिको गुणः-कोऽपि श्राद्धो अामान्तरं नगरान्तरं वा गन्तुकामः 20 प्रधावितः श्रद्धायामुत्पन्नायां तं प्रतिलाभयेत् , सोऽपि लाभो भवति शङ्काऽपि च नोपजायते, यथा-एष बहिर्गमनाय पानकनिमित्तं हिण्डते । स पुनः कीदृशं पानीयं गृह्णीयाद् ? अत आह'अपुष्पितं' अच्छं सुगन्धं चतुर्थरसिकम् , न भवति तादृशं तत उष्णोदकादि गृह्णीयात् । "अण्ण दिसि"मिति यस्यां दिशि संज्ञाभूमिः तस्यां पान कस्य न गन्तव्यम् , यदि पुनस्तस्यां गच्छति ततोऽतिरिक्तं ग्रहीतव्यम् । यदि द्वौ जनौ तदा तथा गृह्णाति यथा तृतीयस्याप्युद्ध-25. रति, किं बहुना ? यावन्तो व्रजन्ति तावतां योग्यमतिरिक्तं तथा गृह्णाति यथैकस्योद्धरति । एवं पानीयं गृहीत्वा समागतो बहिः प्रतिश्रयस्य पादौ प्रमाय॑ दण्डकं स्थापयित्वा ऐर्यापथिकी प्रतिक्रम्य आलोच्य गुरोः पानकं दर्शयित्वाऽऽपृच्छति । गुरुमापृच्छय 'संज्ञाभूमि व्रजामि' इति गच्छति । तत्र यद्यन्योऽपि कश्चिद्रजति तर्हि यथैकस्योद्धरति तावत्प्रमाणं मात्रके पानकं गृह्णाति । तच्चोद्राहितं पात्रमन्यस्य समर्प्य दण्डकं प्रमार्ण्य आवश्यिकीं कृत्वा व्रजति । यथो-30 क्तविधेरकरणे सर्वत्र प्रायश्चित्तं मासलघु ॥ ४३८ ॥ उक्तमेवार्थ स्पष्टतरमुपदर्शयति
अतिरेगगहणमुग्गाहियम्मि आलोय पुच्छियं गच्छे । एसा उ अकालम्मी, अणहिंडिय हिंडिए काले ॥ ४३९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org