________________
१२६
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः अश्लाघां कुर्युः, यथा-अशुचयोऽमी, न केवलमवर्णं कुर्युः किन्तु प्रतिषेधोऽपि तैः क्रियते, यथा-मा कोऽप्यमीषामशुचीनां भक्तं पानं वा दद्यात् । एष पुरुषेषु-पुरुषापाते दोषः ॥४३१॥ सम्प्रति स्त्री-नपुंसकापाते दोषानाह
आय पर तदुभए वा, संकाईया हवंति दोसा उ ।
पंडिस्थिसंगगहिते, उड्डाहो पडिगमणमादी ॥ ४३२ ॥ ____ स्त्रीणां नपुंसकानां चापाते आत्मनि परे तदुभयस्मिन् वा शङ्कादयो दोषा भवन्ति । तत्रात्मनि साधुः शङ्काविषयीक्रियते, यथा-एष किमप्युद्भामयति? ; परैः स्त्री नपुंसको वा शक्यते, यथा-एते पापकर्माण एनं साधुं कामयन्ते इति; तदुभयस्मिन् यथा-द्वावप्येतौ परस्परमत्र मैथुनार्थमागतौ । तदेवमुक्ता शङ्का । आदिशब्दादवर्णादिदोषपरिग्रहः । तथा रूयापाते नपुं10 सकापाते वा स साधुरात्म-परोभयसमुत्थेन दोषेण स्त्रिया पण्डकेन वा सार्द्ध सङ्ख-मैथुनं कुर्यात् , तत्र केनचिदगारेण दृष्ट्वा गृहीतः स्यात् ततः प्रवचनस्योड्डाहः । तथा स उड्डाहित इति कृत्वा प्रतिगमनादीनि कुर्यात् ॥ ४३२ ॥ __ अस्मिन्नेव चतुर्थे स्थण्डिले तिर्यगापाते दोषानाह
आहणणादी दित्ते, गरहियतिरिएसु संकमादीया।।
एमेव य संलोए, तिरिए वज्जित्तु मणुएसु॥ ४३३ ॥ ___'दृप्ते' दृप्ततिर्यगापाते आहननादयो दोषाः । आहननं शृङ्गादिभिस्ताडनम् , आदिशब्दाद मूर्छागमन-मारणादिपरिग्रहः । 'गर्हितेषु तिर्यक्षु' गर्हिततिर्यक्स्त्री-नपुंसकापाते शङ्का मैथुने, आदिशब्दात् प्रतिसेवेतापीत्यादयो दोषाः । यथा आपाते दोषा उक्ता एवमेव संलोकेऽपि तिर्यग्योनिकान् वर्जयित्वा मनुष्येषु द्रष्टव्याः। किमुक्तं भवति ?-एषां संलोके नास्ति कश्चिदन20न्तरोदितो दोषः, मनुष्याणां तु स्त्री-पुरुष-नपुंसकानां संलोके ये आपाते दोषास्ते वेदितव्याः ॥४३३ ।। यद्यपि कदाचिदात्म-परोभयसमुत्था मैथुने दोषा न भवेयुस्तथाप्यमी सम्भाव्यन्ते
जत्थऽम्हे पासामो, जत्थ य आयरइ नातिवग्गो णे।
परिभव कामेमाणो, संकेयगदिनको वा वि ॥ ४३४ ॥ यत्र वयममुमागच्छन्तं पश्यामो यत्र चाऽस्माकं ज्ञातिवर्गो निरन्तरम् 'आचरति' विचा25 रार्थमागच्छति तत्रास्माकं परिभवं कामयमानो दत्तसङ्केतो वा समागच्छति ॥४३४॥ किञ्च
कलुस दवे असतीय व, पुरिसालोए हवंति दोसा उ
पंडित्थीसु वि य तहा, खद्धे वेउविए मुच्छा ॥ ४३५ ॥ 'द्रवे' पानीये कलुषे 'असति' अविद्यमाने वा पुरुषालोके 'दोषाः' प्रागुक्ता अवर्णादयो भवन्ति । तथा पण्डः-नपुंसकः, पण्डेषु स्त्रीषु च संलोकमानेषु खद्धे वैकुर्विके वा सागारिके 30 दृष्टे मूर्छा भवेत् । इयमत्र भावना-नपुंसकः स्त्री वा सागारिकं खभावत एवातिस्थूलं लम्ब
च यदि वा कषायितम् अथवा वातदोषेण वैकुर्विकं दृष्ट्वा तद्विषयाभिलाषमूर्छामापन्ना तं साधुमुपसर्गयेत् तस्मात् त्रयाणामपि संलोको वर्जनीयः ॥ ४३५ ॥ १°हित्थीसंग ता॥ २ °म्हे वचामो ता० ॥ ३ °तीए व पुरिसलोए ता• विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org