SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ - भाष्यगाथाः ४२७-३१ ] पीठिका | १२५ गृहीतानामपि तिर्यक्पुरुषाणामदृप्तानामापाते च त एव कालगुरुकाश्चत्वारो लघवः, तेषामेव नां तपोगुरवश्चत्वारो लघुकाः; दण्डिकपरिगृहीतानां तिर्यक्पुरुषाणामदृप्तानामापाते त एव चत्वारो लघवस्तपोगुरुकाः तेषामेव दृप्तानामापाते चतुर्लघुका द्वाभ्यां गुरवस्तपसा कालेन च; तथा प्राकृतपरिगृहीतानां स्त्रीणां नपुंसकानां च तिरश्चामजुगुप्सितानामापाते चत्वारो गुरुका द्वाभ्यां लघवस्तपसा कालेन च तेषामेव जुगुप्सितानामापाते चत्वारो गुरुकाः 3 काल गुरवः; कोटुम्बिकपरिगृहीतानां तिर्यक्त्री नपुंसकानामापाते त एव कालगुरुकाश्चत्वारो गुरवः, तेषामेव जुगुप्सितानामापाते चत्वारो गुरुकास्तपोगुरवः एत एव दण्डिकपरिगृहीतानामपि तिर्यक्स्त्री - नपुंसकानामदृप्तानामापाते द्रष्टव्याः, दृप्तानामापाते चत्वारो गुरुका द्वाभ्यां गुरवः कालेन तपसा च । उक्ता तिर्यक्ष्वप्यर्द्धापकान्तिः, सम्प्रति स्वपक्षापाते शोधिमाह - अमनोज्ञानाम्-असाम्भोगिकानां संविमानाम् इतरेषां च - असं विमानामापाते प्रायश्चित्तं लघुको 10 मासः । 'संयतीवर्गे समापतति' संयतीनामापाते चत्वारो गुरुकाः ॥ ४२८ ॥ सम्प्रति प्रागुक्तमेवार्थमुपदिदर्शयिषुराह - भद्द तिरी पाडे, मणुयाऽसोएहिं दोहिं लहु लहुगा । कालगुरू वगुरुगा, दोहि गुरू अड्डोकंति दुगे ।। ४२९ ॥ भद्रेषु - अदृप्तेषु तिर्यक्षु पुरुषेषु मनुष्येषु गृहस्थेषु पाषण्डिषु चाऽशौचवादिष्वापतत्सु 15 चत्वारो लघुकाः द्वाभ्यां लघवः । मनुष्यस्त्री - नपुंसकानां शौचवादिनामापाते चत्वारो गुरुका द्वाभ्यां गुरवः, तद्यथा - तपोगुरुकाः कालगुरुकाश्च । शेषेषु तु तिर्यग् - मनुष्य भेदेषु 'द्विके' तपः- काललक्षणे 'अर्द्धापकान्तिः ' क्वचित् तपोगुरुका क्वचित् कालगुरुकेत्येवंरूपाऽवसातव्या । सा च प्राक् प्रदर्शिता ॥ ४२९ ।। गतं शोधिद्वारम् । इदानीमपायद्वारमाहअमणुण्णेयरगमणे, वितहायरणम्मि होड़ अहिगरणं । परदवकरण दहूं, कुसील सेहादिगमणं च ॥ ४३० ॥ अमनोज्ञानाम्-असाम्भोगिकानां संविनानाम् इतरेषां चं- असं विमानां गमने - आपात सत वितथाचरणे दृश्यमाने भवति परस्परमधिकरणम् । इयमत्र भावना - आचार्याणां परस्परमन्यथा सामाचार्यः, ततोऽसाम्भोगिकानां सामाचारीवितथाचरणदर्शने 'नैषा सामाचारी' इति परस्परमधिकरणं प्रवर्त्तते । इतरे कुशीलाः पार्श्वस्थादयस्ते प्रचुरेण वारिणा पुतप्रक्षालनं कुर्वन्ति, 26 ततस्तेषां कुशलानां प्रचुरद्रवेण पुनर्निर्लेपकरणं दृष्ट्वा शैक्षकाणाम् आदिशब्दात् शौचवादिनां मन्दधर्मिणां च गमनं तेषां समीपे भवति ॥ ४३० ॥ 20 अपाय द्वारम् निग्गंथाणं पढमं, सेसा खलु होंति तेसि पडिकुड्डा । दव अप्प कलस असती, अवण्ण पुरिसेसु पडिसेहो ॥ ४३१ ॥ यत एवमापाते दोषास्तस्मान्निर्ग्रन्थानां प्रथमं स्थण्डिलम् - अनापातमसंलोकमित्येवंरूपम्, 30 शेषाणि त्रीणि खलु 'तेषां' निर्ग्रन्थानां 'प्रतिकुष्टानि' प्रतिषिद्धानि । अथ परपक्षापातं तत्रापि पुरुषापातं व्रजति तदा नियमतो द्रवमकलुषं परिपूर्णं च नेतव्यम्, अन्यथा 'द्रवे' पानीये अल्पे कलुषे वा यदि वा 'असति' विना पानीयेन गतो भवेत् ततस्ते दृष्ट्वा 'अवर्णम्' For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy