SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 15 १२४ सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः नामापाते कालगुरुकाः चत्वारो लघुकाः, तेषामेव तिर्यक्स्त्री-नपुंसकानां दृप्तानां जुगुप्सितानां चापाते चत्वारों लघुकास्तपोगुरवः, मनुष्यस्त्री-नपुंसकानामशौचवादिनामपि त एव तपोगुरवश्चत्वारो लघुकाः ॥ ४२६ ॥ इयमेकेषामाचार्याणां मतेनाख़्वक्रान्तिरुपदर्शिता । सम्प्रति भाष्यकारोऽन्यथाऽर्धीवक्रान्तिमाह पागय कोडंबिय दंडिए य अस्सोय-सोयवादीसु।। चउगुरुगा जमलपया, अहवा चउ छ व गुरु-लहगा ॥ ४२७॥ प्राकृते कौटुम्बिके दण्डिनि च प्रत्येकमशौचवादिनि शौचवादिनि चार्धवक्रान्तिरवसेया । सा चैवम्-प्राकृतानामशौचवादिनां पुरुषाणामापाते चत्वारो लघुकास्तपसा कालेन च लघवः, तेषामेव शौचवादिनां प्राकृतपुरुषाणामापाते त एव चत्वारो लघवः कालगुरुकाः; कौटुम्बिकानाम10 शौचवादिनां पुरुषाणामापाते कालगुरुकाश्चत्वारो लघवः, तेषामेव कौटुम्बिकपुरुषाणां शौचवादिनामापाते चत्वारो लघवस्तपोगुरुकाः; दण्डिकपुरुषाणामशौचवादिनामापाते तपोगुरुकाश्चतुर्लघवः, तेषामेव शौचवादिनामापाते चतुर्लघवो द्वाभ्यां गुरुकास्तपसा कालेन च । उक्तश्च पागइयऽसोयवादी, पुरिसाणं लहुग दोहि वी लहुगा । ते चेव य कालगुरू, तेर्सि चिय सोयवादीणं ॥ ते च्चिय लहु कालगुरू, कोडंबीणं असोयवादीणं । तेसिं चिय ते चेव उ, तवगुरुगा सोयवादीणं ॥ दंडिय असोय ति चिय, सोयम्मि य दोहि गुरुग चउलहुगा । एस पुरिसाण भणिओ, इत्थि-नपुंसाण वी एवं ॥ "चउगुरुगा जमलपदा" इति 'यमलपदानि' स्त्री-नपुंसकलक्षणानि चतुर्गुरुकानि वक्त. 20 व्यानि । तानि चैवम्-प्राकृतस्त्रीणामशौनवादिनीनामापाते चत्वारो गुरुकाः द्वाभ्यां लघवः, तद्यथा-तपसा कालेन च, तासामेव शौचवादिनीनां चत्वारो गुरुकाः कालगुरवः; कौटुम्बिकस्रीणामशौचवादिनीनामापाते कालगुरवश्चत्वारो गुरुकाः, तासामेव शौचवादिनीनामापाते नया गुरुकाश्चत्वारो गुरवः; एवमेव दण्डिकस्त्रीणामशौचवादिनीनाम पि, शौचवादिनीनां न त्याग गुरुका द्वाभ्यां गुरवस्तपसा कालेन चः एवमेव नपुंसकानामप्यापाते वक्तव्यम् । अमेव 25 मतान्तरमाह-अथवा स्त्रीणामापाते चतुर्गुरुका उत्प्रकारेण तपसा कालेन च विशषिताः ! नपुंसकानामापाते षड्लघवो यथोक्तक्रमेण तपः-कालविशेषिताः ॥ ४२७ ॥ सम्प्रति तिर्यगापातमधिकृत्यार्द्धापक्रान्तिमाह तिरिएसु वि एवं चिय, अदुगुंछ-दुगुंछ-दित्त-दित्तेसु । ___ अमणुण्णेयर लहुगो, संजतिवग्गम्मि चउगुरुगा ॥ ४२८ ॥ 50 एवमेव' अनेनैव प्रकारेण तिर्यक्ष्वजुगुप्सित-जुगुप्सित-दृप्ता-ऽदृप्तेष्व‘पक्रान्तिरवसेया, __ तद्यथा-प्राकृतपुरुषगृहीतानामदृप्तानां तिर्यक्पुरुषाणामापाते चत्वारो लघवो द्वाभ्यां लघुकास्तपसा कालेन च, तेषामेव च दृप्तानां त एव चत्वारो लघवः कालगुरुकाः; कौटुम्बिकपरि१°नां चापा डे. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy