________________
१२०
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः प्रव्रांजना नाम यो धर्मे कथितेऽकथिते वा प्रवजामीत्यभ्युत्थितः [सः] प्रथमतः पृच्छयतेकस्त्वम् ! कुतो वा समागतः? किंनिमित्तं वा प्रव्रजिष्यति । तत्र यदा पृच्छापरिशुद्धो भवति तदा प्रवाजयितुमभ्युपगम्यते, अभ्युपगम्य च प्रशस्तेषु द्रव्यादिष्वाचार्यः खयमेवाष्टाग्रहणं करोति । एतावता प्रव्राजनाद्वारम् । तदनन्तरं स्थिरहस्तेन लोचे कृते रजोहरणमर्पयित्वा तस्य सामायिकसूत्रं दीयते, ततः- “सामायिक मे दत्तम् इच्छामोऽनुशिष्टिम्" इति; सूरयो ब्रुवतेनिस्तारकेपारगो भव, क्षमाश्रमणानां गुणैर्वर्धख । एषा मुण्डापना । “सिक्खावण"ति तदनन्तरं द्विविधामपि शिक्षा ग्राह्यते, तद्यथा-ग्रहणशिक्षामासेवनाशिक्षां च । ग्रहण शिक्षा नाम पाठः, आसेवनाशिक्षा सामाचारीशिक्षणम् । यदा द्विविधामपि शिक्षा ग्राहितो भवति तदा
स उपस्थाप्यते प्रशस्तेषु द्रव्य-क्षेत्रादिषु । द्रव्यतः शालिकरणे इक्षुकरणे चैत्यवृक्षे वा । क्षेत्रतः 10 पद्मसरसि सानुनादे चैत्यगृहे वा । कालतश्चतुर्थ्यष्टम्यादिवर्जितासु तिथिषु । भावतोऽनुकूले
नक्षत्रे, यदि तस्य जन्मनक्षत्रं न ज्ञायते तदाऽऽचार्यस्यानुकूले नक्षत्रे सुन्दरे मुहूर्ते यथाजातेन लिङ्गेन तद्यथा-रजोहरणेन निषद्याद्वयोपेतेन मुखपोतिकया चोलपट्टेन च वामपार्श्वे स्थापयित्वा एकैकं महाव्रतं त्रीन् वारान् उच्चार्यते यावद् रात्रिभोजनम् । अथ ते द्वौ त्रयो बहवों
वा भवेयुस्ततो यथावयोवृद्धम् ; अथ ते क्षत्रिया राजपुत्राः तत्र यः खत एवासन्नतर आचार्यस्य 16 स रत्नाधिकः क्रियते, इतरो लघुः; अथ द्वावप्युभयतः पार्श्वयोः समौ व्यवस्थितौ तदा तौ
द्वावपि समरलाधिको व्रतेषूच्चारितेषु प्रदक्षिणां कारयित्वा पादयोः पात्यते (पात्येते) भाण्यते (भाण्येते) च-महाव्रतानि ममारोपितानि, इच्छामोऽनुशिष्टिम् , शेषाणामपि साधूनां निवेदयामि । गुरुर्भणति-निवेदय । इदं च भणति-निस्तारकपारगो भव, क्षमाश्रमणानां च
गुणैर्वर्धख । एवमुपस्थिते द्विविधः सङ्ग्रहः साधोः, यथा-अहं तव आचार्यः, अमुकस्ते उपा30 ध्यायः । साळ्यास्त्रिविधः सङ्ग्रहः, तत्र तृतीया अमुका ते प्रवर्तिनी । एवमुपस्थाप्य केषा
ञ्चित् पञ्चकल्याणकं केषाश्चिदभक्तार्थ केषाञ्चिदाचाम्लं केषाश्चिन्निर्विकृतिकमपरेषां न किञ्चित्, किंबहुना ! यद् यस्य तपःकर्म आवलिकागतं स तद् दत्त्वा तेन सहैकत्र मण्डल्यां सम्भुक्के, संवसनं च करोति । शैक्षकपरिपालना चेयम्-यावन्नोपस्थाप्यते तावन्न भिक्षां हिण्डापयितव्यः ॥ ४१३ ॥ कथं पुनरुपस्थापनीयः ? इत्यत आह
पढिए य कहिय अहिगय, परिहर उवठावणाए सो कप्पो।
छकं तीहि विसुद्धं, परिहर नवगेण भेदेण ॥ ४१४ ॥ सूत्रं प्रथमतः पाठयित्वा तदनन्तरमर्थ कथयित्वा ततः 'अधिगतोऽनेनार्थः, सम्यक् श्रद्धानविषयीकृतश्च' इति परीक्ष्य यदा. 'षट्कं' षड्जीवनिकायान् 'त्रिभिः' मनो-वाक्-कायविशुद्धं
भावतो न परानुवृत्त्या परिहरति । कथं परिहरति ? इत्यत आह-नवकभेदेन षदकम् , मनसा खयं 30 परिहरति अन्यैः परिहारयति परिहरन्तमन्यं समनुजानाति, एवं वाचा कायेन च प्रत्येकं त्रयस्त्रयो भेदा द्रष्टव्याः ॥ ४१४ ॥
१°ष्यसि त डे० त० कां० ॥ २ °कः पा° भा० मो० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org