________________
भाष्यगाथा: ४०६-४१३] पीठिका।
११९ पाद् द्वितीयभङ्गरूपाद् वा येऽधिके स्थाने प्रियधर्मत्व-दृढधर्मत्वलक्षणे तयोर्युक्तः । स च नियमादवद्यभीरुर्भवति, अवयं-कर्म तस्माद्भीरुः, तत आह-"अवज्जभीरू" स तदुभयक. ल्पिकः । अत्रौपम्यमार्यवः, [सः ] बालभावे कर्णाभ्याहृतं सूत्रं कृतवान् , पश्चात् तस्योद्दिष्टं समुद्दिष्टमनुज्ञातम् अर्थश्च तदैव द्वितीयपौरुष्यां कथितः । एवमन्यस्यापि द्रष्टव्यम् ॥ ४०९॥ तथा चाह
पुव्वभवे वि अहीयं, कण्णाहडगं व बालभावम्मि ।
उत्तममेहाविस्स व, दिजति सुत्तं पि अत्थो वि ॥ ४१० ॥ यस्य पूर्वभवेऽधीतमागच्छति बालभावे वा कर्णाहृतं कृतं तस्य, उत्तममेधाविनो वा युगपत्सूत्रमप्यर्थोऽपि च दीयते । एष उभयकल्पिकः ॥ ४१० ॥ साम्प्रतमुपस्थापनाकल्पिकमाह
अप्पत्ते अकहित्ता, अणहिगयऽपरिच्छणे य चउगुरुगा। 10 उपस्थाप
दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा ॥ ४११ ॥ नाकल्पिकः सूत्रेऽसमाप्ते उपस्थाप्यमाने उपस्थापयितुः प्रायश्चित्तं चत्वारो गुरुकाः । कथम्भूताः ? इत्याह-द्वाभ्यां गुरवः, तद्यथा-तपसाऽपि गुरुकाः कालेनापि गुरुकाः । अथ सूत्रं प्राप्तस्तथापि तस्यार्थमकथयित्वा यदि तमुपस्थापयति तदा तस्य चत्वारो लघुकाः, नवरं कालेनैकेन लघवः । अथ कथितोऽर्थः परं नाद्याप्यधिगतः अथवाऽधिगतः परमद्यापि न सम्यक् तं श्रद्द-10 धाति तमनधिगतार्थमश्रद्दधानं वा उपस्थापयतश्चत्वारो लघुकाः, नवरमेकेन तपसा लघवः । अथाधिगतार्थमप्यपरीक्ष्योपस्थापयति तदा चत्वारो लघुकाः, तपसाऽपि कालेनापि च लघवः । न केवलमेतत् प्रायश्चित्तं किन्त्वाज्ञादयश्च दोषाः । तथा सर्वत्र षण्णां जीवनिकायानां यद् विधास्यति तत् सर्वमुपस्थापयन् प्राप्नोति । तस्माद् यत एवं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मान्नापठिते षड्जीवनिकासूत्रे नाप्यनधिगतेऽथें नापि तस्मिन्नपरीक्षिते उपस्थापना कर्त्तव्या ।। ४११॥20 अथ कियन्तः पइजीवनिकायामर्थाधिकाराः ? तत आहजीवा-जीवाभिगमो, चरित्तधम्मो (ग्रन्थाग्रम्-३०००) तहेव जयणाय। षड्जीव
निकाया उवएसो धम्मफलं, छज्जीवणियाएँ अहिगारा ॥ ४१२ ॥
अर्थाधिपइजीवनिकायामिमे पञ्चाधिकाराः, तद्यथा-प्रथमो जीवा-ऽजीवाभिगमः । द्वितीयो महा- काराः व्रतसूत्रादारभ्य चारित्रधर्मः । तृतीयो “जयं चरे जयं चिट्टे" (दश० अ० ४ गा० ८) इत्या- 25 दिना यतना । तदनन्तरमुपदेशः । ततो धर्मफलम् । एते च विस्तरतो दशवकालिकटीकातः परिभावनीयाः ॥ ४१२ ॥ तत्राऽऽस्तामुपस्थापना, कथं स प्रव्राजयितव्यः' इति तदेवोच्यते । तत्र षड्विधो द्रव्यकल्पो वक्तव्य इति तमभिधित्सुराह
पव्वावण मुंडावण, सिक्खावण उवह संभुंजणा य संवसणा । घटप्रकारो
एसो उ दवियकप्पो, छव्विहतो होति नायव्यो ।। ४१३ ॥ १ इत आरभ्याप्रेतना गाथाश्चर्णिकृता क्रमभेदेन व्याख्याता दृश्यन्ते-अप्पत्ते अकहित्ता० ४११ पढिए य कहिय० ४१४ पवावण मुंडावण. ४१३ जीवाजीवाभिगमो. ४१२ अप्पत्ते अकहिता. ४१५॥ २ सिखावण उघट्ट भुंज संवसणा ता० ॥
30दव्यकल्पः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org