________________
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः उपस्थापनायां ४ विचारे ५ पात्रलेपे ६ पिण्डे ७ तथा शय्यायां ८ वस्त्रे ९ पात्रे १० अवनहणे ११ विहारकल्पे च १२ । एष प्रतिद्वारगाथासमासार्थः ॥ ४०५ ॥
साम्प्रतमेनामेव विवरीषुः प्रथमतः सूत्रकल्पिकमाह-~ सूत्र
सुत्तस्स कपितो खलु, आवस्सगमादि जाव आयारो । कल्पिक: 6
तेण पर तिवरिसादी, पकप्पमादी य भावेणं ॥ ४०६ ॥ आवश्यकमादिं कृत्वा यावदाचारस्तावत् सर्वोऽपि सूत्रस्य कल्पिको भवति, न खल्वेतावत् सूत्रं यावत् कोऽपि पठन् विनिवार्यते । ततः परं त्रिवर्षप्रव्रजितमादिं कृत्वा यद् यद् व्यवहारे दशमोद्देशकपर्यन्ते यथा भणितं तत् तथोपदिश्यते यावद्विंशतिवर्षपर्यायः सर्वश्रुतानुपाती भवति । नवरमाचारप्रकल्पमादिं कृत्वा यान्यपवादबहुलान्यध्ययनानि यानि चाति७शायीन्यरुणोपपातप्रभृतीनि तानि यदा भावे परिणतो भवति तदोद्दिश्यन्ते ॥ ४०६ ॥ आह त्रिषु वर्षेष्वपरिपूर्णेष्वाचारे पठिते किं कुर्यात् ? अत आह–
सुत्तं कुणति परिजितं, तदत्थगहणं पइण्णगाई वा ।
इति अंग-ऽज्झयणेसुं, होति कमो जाहगो नायं ॥ ४०७॥ यत् पठितं सूत्रं तत् परिजितं कुर्यात् । यदि वा तस्य सूत्रस्यार्थग्रहणं विदध्यात्, प्रकीर्णकादि वा सूत्रतोऽर्थतश्चाधीते । एवमङ्गानामध्ययनानां चातिशायिनां यावत् कल्पिको भवति तावदेष क्रमो ज्ञातव्यः । जाहकज्ञातं चात्र पूर्वोपन्यस्तमुपन्यसनीयम् , जाहक इव परिजितौ सूत्रा-ऽर्थी कुर्यादिति भावार्थः ॥ ४०७ ॥ अर्थकल्पिकमाह
__अत्थस्स कप्पितो खलु, आवासगमादि जाव सूयगडं । कल्पिकः
मोत्तूंणं छेयसुयं, जं जेणहियं तदहस्स ॥ ४०८ ॥ 20 आवश्यकमादिं कृत्वा यावत् सूत्रकृतमङ्गं तावद् यद् येनाधीतं स तस्यार्थस्य कल्पिको भवति । सूत्रकृताङ्गस्योपर्यपि च्छेदश्रुतं मुक्त्वा यद् येनाधीतं सूत्रं स तस्य-सूत्रस्य समस्तस्याप्यर्थस्य कल्पिको भवति । छेदसूत्राणि पुनः पठितान्यपि यावदपरिणतस्तावन्न श्राव्यते,
यदा तु परिणतो भवति तदा कल्पिकः ॥ ४०८ ॥ अधुना तदुभयकल्पिकमाहतदुभय
तदुभयकप्पिय जुत्तो, तिगम्मि एगाहिएसु ठाणेसु ।
पियधम्मऽवज्जभीरू, ओवम्मं अजवइरेहिं ॥ ४०९ ॥ तदुभयं-सूत्रमर्थश्च तस्मिन् कल्पिको युक्तः। किमुक्तं भवति ? यो द्वावपि सूत्रा-ऽौँ युगपद् ग्रहीतुं समर्थः स तदुभयकल्पिकः । अथवा तदुभयकल्पिकः 'त्रिके एकाधिकयोः स्थानयोर्युक्तः' त्रिकं नाम सूत्रमर्थस्तदुभयं च, तत्र सूत्रादर्थोऽधिकः, अर्थादधिकमुभयम् , एव
मेकस्मादर्थादधिके ये उभे स्थाने सूत्रा-ऽर्थरूपे तत्र युक्तः-योग्यः स तदुभयकल्पिकः । 30 अथवा प्रियधर्मा इति चत्वारो भङ्गाः सूचिताः-प्रियधर्मा नामैको न दृढधर्मा १ दृढधर्मा नामैको न प्रियधर्मा २ एकः प्रियधर्माऽपि दृढधर्माऽपि ३ एको न प्रियधर्मा नापि दृढधर्मा ४ । अत्र चतुर्थभङ्गोऽवस्तु । शेषभङ्गत्रिके यत एकस्मादेकैकगुणयुक्तात् स्थानात् प्रथमभङ्गरू१ परिणतं मो० ३० त० ॥ २ तूण छेदसुत ता० ॥
अर्थ
कल्पिक: 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org