________________
mar
पर्षत्
भाष्यगाथाः ३६१-६७]
१०९ मुद्गशैल-च्छिद्रकुट-चालनीसमानानां गुणनालक्षणे कार्य समापतिते सूत्रमर्थ वा प्रयच्छन् शुद्धः, न खलु तत्र स्वस्यान्येषां वा शिष्याणां सूत्रा-ऽर्थहानिः । अकार्ये पुनरेतेषु सूत्रा-ऽर्थों प्रयच्छतश्चतुर्गुरु । तथा 'घटद्विके' प्रशस्तवाम्येऽप्रशस्तावाम्ये अथवा बोडकुटे भिन्नकुटे व्याख्यानद्वयेन सङ्घहतश्चतुष्तेषु प्रायश्चित्तं प्रत्येकं चतुर्गुरु । परिपूणकसदृशे [महिषसमाने] मशकतुल्ये बिडालीसमाने आभीरीसदृशेऽप्रशस्तगौसमुपलक्षितधिग्जातीयतुल्ये कन्थाकारिभेरी-5. पालकसदृशे एतेषु सप्तसु सूत्रा-ऽर्थी प्रयच्छतः प्रत्येकं प्रायश्चित्तम् 'एवमेव' चतुर्गुरुकमित्यर्थः ॥
एतेषां ये प्रतिपक्षा हंसादयो ये च प्रशस्तगो-भेरीदृष्टान्तसूचितास्तेषां सूत्रा-ऽौँ प्रयच्छन् शुद्धः । यदि पुनर्न ददाति तदा प्रायश्चित्तं प्राप्नोति चतुर्लघु ॥ ३६२ ॥ ३६३ ॥ प्रकारान्तरेण पर्षनिरूपणार्थमाहजाणंतिया अजाणंतिया य तह दुबियड्डिया चेव ।
पर्षदः तिविहा य होइ परिसा, तीसे नाणत्तगं वोच्छं ।। ३६४ ॥ अथवा त्रिविधा पर्षत् , तद्यथा-जानती अजानती दुर्विदग्धा च । 'तस्याः' त्रिविधाया अपि नानात्वं वक्ष्ये ॥ ३६४ ॥ प्रतिज्ञातमेव करोतिगुण-दोसविसेसन्नू, अणभिग्गहिया य कुस्सुइमतेसु ।
15 जानती सा खलु जाणगपरिसा, गुणतत्तिल्ला अगुणवजा ॥ ३६५ ॥ या गुण-दोष विशेषज्ञा 'कुश्रुतिमतैः' अपरकुतीर्थिकसिद्धान्तमतैरनभिगृहीता, गाथायां सप्तमी तृतीयार्थे, सा खलु "गुणतत्तिल्ला" गुणयनवती अगुणवर्जा जानती पर्षत् ।। ३६५ ।। सम्प्रति येऽस्याध्ययनस्य योग्यास्तानाह
खीरमिव रायहंसा, जे घोटंति उ गुणे गुणसमिद्धा। 20
दोसे वि य छडंती, ते वसभा धीरपुरिस त्ति ॥ ३६६ ॥ ये 'गुणसमृद्धाः' विनयादिगुणसमन्विताः क्षीरमिव राजहंसा गुणान् 'घोटयन्ति' आखादयन्ति, येऽपि केचनानुपयोगप्रभवा दोषास्तानपि च 'छर्दयन्ति' परित्यजन्ति ते 'वृषभाः' निशीथेन गीतार्थी धीरपुरुषा अधिकृतस्याध्ययनस्य योग्याः ॥३६६ ।। अजानतीं पर्षदमाहजे होति पगयमुद्धा, मिगछावग-सीह-कुकुरगभूया।
25 अजानती रयणमिव असंठविया, सुहसण्णप्पा गुणसमिद्धा ॥ ३६७॥
पर्षत ये प्रकृत्या स्वभावेन मुग्धा मृग-सिंह-कुकुरशावभूता, गाथायां शावशब्दस्यान्यत्रोपनिपातः प्राकृतत्वात् , भूतशब्द औपम्ये, ततोऽयमर्थः-यथा मृगादिशावा अरण्यादानीय यदि रोचते तर्हि भद्रकाः क्रियन्ते अथवा क्रूराः, एवं ये प्रकृत्या मुग्धाः परतीर्थिकैश्चाभावितास्ते यथा भण्यन्ते तथा कुर्वन्ति । तथा रत्नमिव असंस्थापिताः, यथा रत्नमसंस्थापितं यादृशोऽभिप्राय-30 स्तादृशं घटित्वा क्रियते एवमेतेऽपि यथा रोचते तथा क्रियन्ते । तथा चाह-सुखप्रज्ञापनीयाः 'गुणसमृद्धाः' विनयादिगुणनिधयः ॥ ३६७ ॥ १°ताः यथा रत्नमसंस्थापिताः यथा रत्न डे• मो० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org