________________
भाष्यगाथाः ३३८-४४]
पीठिका।
१०३
ये पुनस्तैलादिभिरभावितास्ते निर्विवादं परिग्राह्याः। एतदेकेषामाचार्याणां मतेन भणितम् । अथवाऽयमन्यो गमः, किमुक्तं भवति ?-अन्ये आचार्या यदा कुटद्वारं प्राप्तं भवति तदा ते एवं प्ररूपयन्ति-द्विविधाः कुटाः-द्रव्यकुटा भावकुटाश्च । द्रव्यकुटाश्चतुर्विधाः, तद्यथाछिद्रकुटः खण्डकुटो बोडकुटः सकलकुटः । तेषां' चतुर्णामपि प्ररूपणा कर्त्तव्या, सा चैवम्छिद्रकुटो नाम यस्याधश्छिद्रम् , तत्र यत् प्रक्षिप्यते तत् सर्वं गलति । खण्डकुटो नाम यस्य: कर्णी बोटी, स पानीयमूनं गृह्णाति । बोटकुटो यस्यैकपाधै कपाल भेदः, तत्र स्तोकं तिष्ठति । सकलो नाम सम्पूर्णस्तत्र यत् क्षिप्यते तत् सर्व तिष्ठति । एवं शिष्या अपि चत्वारो भवन्ति, तद्यथा-छिद्रकुटसमानः खण्डकुटसमानो भिन्नकुटसमानः सकलकुटसमानश्च । एते भावकुटाः । छिद्रकुदसमानो यावत् कथ्यते तावत् स्मरति, उत्थितः किमपि न स्मरति । खण्डकुटसमान ऊनं गृह्णाति । भिन्नकुटसमानः स्तोकम् । सकलकुटसमानः समस्तम् । तथा 10 चास्या एव गाथाया इयं व्याख्यानभूता गाथा
जे पुण अभाविया ते, वि गज्झ चउहा कुडा व होतऽण्णे ।
छिड्नुकुड बोड खंडे, सगले य परूवणा तेसिं ।। ततो नाधिकृतव्याख्यानविरोधः । एतेषां सकलकुटसदृशं वर्जयित्वा शेषाणां ये मुद्गशैलसमानस्य दोषास्ते द्रष्टव्याः । सकलकुदसमानस्य त्वव्यवच्छित्तिकारित्वात् कथनीयम् ।। ३४२ ॥ 15
सम्प्रति चालनीदृष्टान्तो यथा-चालिन्यामुदकं प्रक्षिप्यमाणमेवाधस्तादपगच्छति । एवं यस्यैकेन कर्णेन प्रविशति द्वितीयेन निर्गच्छति स चालनीसमानस्तस्यापि न कथनीयम् , मुद्गशैलस्येवानेकदोषप्रसङ्गात् ॥
सेले य छिद्द चालिणि, मिहो कहा सोउ उठियाणं तु।। छिड्डाऽऽह तत्थ विहो, सरिंसु सुमरामि नेयाणि ॥ ३४३ ॥ 200
'चालनीएगेण विसइ वीएण नीइ कनेण चालिणी आह ।
समानां
शिष्याणां घन्न स्थ आह सेलो, जं पविसइ नीई वा तुझं ॥ ३४४ ॥
मिथः तेषां मुद्गशैल-च्छिद्रकुट-चालनीसमानानां शिष्याणां व्याख्यां श्रुत्वोत्थितानामेवरूपा संकथाः मिथः कथा प्रावत-कथयत आर्याः ! केन किमवधारितम् ? । तत्र छिद्रकुटसमानो ब्रूते यावत् तत्र मण्डल्यामुपविष्ट आसीत् (आसं) तावत् स्मृतवान् , उत्थितस्य सर्व । विस्मृतम् ॥ ३४३ ॥
चालनीसमान आह-ममैकेन कर्णेन 'विशति' प्रविशति द्वितीयेन निर्गच्छति । शैल. समानः प्राह-धन्याः स्थ यूयम् यद् युष्माकं कर्णेषु प्रविशति निर्गच्छति च, मम तु मन्दभाग्यस्य मूलत एव न प्रविशति ॥३४४॥ चालनीप्रतिपक्षस्य कथयितव्यम् , यत आह
तावसखउरकढिणयं, चालणिपडिवक्खु न सवइ दवं पि। 30 चालिन्याः प्रतिपक्षस्तापसस्य भाजनं खउरम्, विस्वरस-भल्लातकरसाभ्यां लिप्तत्वात् 'कठि१धन्नो त्थ ता. विना ॥ २ नीति वि य तु ता० ॥ ३ “जाव तत्थ मंडलीए अच्छिताइओ ताव सुमरियाइओ अहं, उठियस्स सव्वं विस्सरितं" इति चूर्णिकृतः॥
मुद्रशैल. छिद्रकुट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org