________________
कृष्णभूम्युदाह रणम्
फुटोदाहरणम्
१०२
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः तथाशिक्षणे कश्चिदुपकारः, केवलं सुबहुरपि तत्र क्लेशः क्रियमाणो निरर्थकः । एतदेव प्रतिवस्तूपमया दर्शयति-स्पृष्टाऽपि वन्ध्या गौर्न दुग्धदा भवति, एवं सोऽपि शिष्यमाणो न किञ्चिदवगाहते ॥ ३३७ ।। शैलघनप्रतिपक्षे च शिष्ये कृष्णभूमकल्पे दातव्यम् । तथा चाह
बुट्टे वि दोणमेहे, न कण्हभोमाउ लोट्टए उदयं । ।
गहण-धरणासमत्थे, इय देयमछित्तिकारिम्मि ॥ ३३८ ॥ कृष्णभूमे प्रदेशे द्रोणमेघेऽपि वृष्टे यद् यत्र पतत्युदकं तर्त्तथैव प्रविशति, न पुनस्तस्मात् कृष्णभूमादन्यत्र लोटते । 'इति' एवं ग्रहण-धारणासमथे अव्यवच्छित्तिकारिणि देयं सूत्रम् ॥ ३३८ । अधुना कुटद्वारमाह
भाविय इयरे य कुडा, पसत्थ-अपसत्थमाविया दुविहा । 10. पुप्फाईहिँ पसत्था, सुर-तिल्लाईहिँ अपसत्था ॥ ३३९ ॥
अम्मा य अचम्मा वि य, पसत्थवम्मा य हुँति अग्गिज्झा।
अपसत्थअवम्मा वि य, तप्पडिवक्खा भवे गिज्झा ॥ ३४० ॥ __'कुटाः' घटाः । ते द्विधा-भाविता इतरे च । तत्र ये भावितास्ते द्विधा-प्रशस्तभाविता
अप्रशस्तभाविताश्च । तत्र ये पुष्पादिभिर्भावितास्ते प्रशस्तभाविताः । सुरा-तैलादिभिर्भाविताः 16 अप्रशस्ताः' अप्रशस्तभाविताः । पुष्पादिभिरित्यत्राऽऽदिग्रहणात् कर्पूरादिपरिग्रहः । सुरातैलादिभिरित्यत्र वशादिग्रहणम् ॥ ३३९ ॥
तत्र ये प्रशस्तभावितास्ते द्विविधाः-वाम्या अवाम्याश्च । वाम्या नाम ये तं भावं च्याव. यितुं शक्याः, इतरे अवाम्याः । येऽप्यप्रशस्तभावितास्तेऽपि द्विधा-वाम्या अवाम्याश्च । तत्र
ये प्रशस्तभाविता वाम्या ये चाप्रशस्तभाविता अवाम्यास्तेऽग्राह्याः । ये तु 'तत्प्रतिपक्षाः' 20 प्रशस्तभाविता अवाम्या ये चाप्रशस्तभाविता वाम्यास्ते ग्राह्याः। एते द्रव्यकुटाः । एवं भावकुटाः शिष्या अपि परिभावनीयाः ॥ ३४० ॥ तथा चाह
कुप्पवयण-ओसनेहिँ भाविया एवमेव भावकुडा ।
संविग्गेहिँ पसत्था, वम्माऽवम्मा य तह चेव ॥ ३४१॥ 'एवमेव' अनेनैव द्रव्यकुटदृष्टान्तप्रकारेण भावकुटा अपि द्रष्टव्याः । तद्यथा-भाविता 25 अभाविताश्च । तत्र भाविता द्विविधाः-प्रशस्तभाविता अप्रशस्तभाविताश्च । तत्र ये कुप्रवच
नैरवसन्नैश्च भावितास्तेऽप्रशस्तभाविताः, ये संविमै वितास्ते 'प्रशस्ताः' प्रशस्तभाविताः । एकैके द्विविधाः-वाम्या अवाम्याश्च । तत्र ये प्रशस्तभाविता वाम्या ये चाप्रशस्तभाविता अवाम्या एते अग्राह्याः । ये च प्रशस्तभाविता अवाम्या ये चाप्रशस्तभाविता वाम्या एते द्वयेऽपि ग्राह्याः । ये अवाम्यास्ते सुचिरेणापि कालेन तं भावं न परित्यजन्ति, ततः पश्चात्ते 30 निश्रापदं लब्ध्वा पापपरा जायन्ते । ग्राह्या नाम कथनयोग्याः, अग्राह्या अकथनीयशास्त्राः॥३४१॥
जे पुण अभाविया ते, चउबिहा अहविमो गमो अन्नो।
छिडकुड खंड बोडे, सगले य परूवणा तेसिं ॥ ३४२ ।। १ शिक्ष्यमा ले. भा० ॥ २ भूमिक° मो० ॥ ३ °भूमिप्र मो० त० ॥ ४ त्तत्रैव मो० ॥ ५ कुड भिनखंडे सग° ता०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org