________________
सनियुक्ति-भाप्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः 'शास्त्रे' शास्त्रानुसारतः ॥ ३२९ ॥ गतं लक्षणद्वारम् । एवंगुणयुक्तस्य सूत्रस्य कोऽर्हः ? इत्यनेन सम्बन्धेन तदर्हद्वारमापतितम् । तत्र सोऽहं उण्डिकादिदृष्टान्तस्योपनयभूतस्तत आहतदर्हद्वारम्
उंडिय भूमी पेढिय, पुरिसग्गहणं तु पढमओ काउं । __ एवं परिक्खियम्मी, दायव्वं वा न वा पुरिसे ॥ ३३०॥ नवे नगरे निवेश्यमाने प्रथमतः 'उण्डिका' या यस्य योग्या भूमिस्तस्य तत्पदानार्थ मुद्रा पात्यते, ततो भूमिशोधनम् , तदनन्तरं पीठिका । एवमत्रापि प्रथमतः पुरुषग्रहणं कृत्वा तदनन्तरं परीक्षा कर्तव्या-किमयमपरिणामकः ? अतिपरिणामकः ? परिणामको वा ! इति । एवं पुरुषे परीक्षिते दातव्यं न वा ? अपरिणामिकेऽतिपरिणामिके वा न दातव्यं परिणामिके 10 दातव्यमिति गाथासङ्केपार्थः ॥ ३३० ॥ साम्प्रतमेनामेव विवरीपुराह
अभिनवनगरनिवेसे, समभूमिविरेयणक्खरविहन्नू । पाडेइ उंडियाओ, जा जस्स सठाणसोहणया ॥ ३३१ ॥ खणणं कोण ठवणं, पेढं पासाय रयण सुहवासो । इय संजम नगरुंडिय, लिंग मिच्छत्तसोहणयं ॥ ३३२॥ वय इट्टगठवणनिमा, पेढं पुण होइ जाव सूयगडं ।
पासाओ जहिं पगयं, रयणनिभा हुंति अत्थपया ॥ ३३३ ॥ अभिनवे नगरे निवेश्यमाने प्रथमतो भूमिः परीक्ष्यते । परीक्ष्य च तस्याः समभूमिविरेचन विधीयते । तदनन्तरमक्षरविधिज्ञो या यस्य योग्या भूमिस्तस्य तस्याः प्रदानार्थ 'उण्डिकाः' अक्षरसहिता मुद्रिकाः पातयति । (ग्रन्थानं २५००) ततः स्वस्थानस्य शोध20 नता-शोधनम् ॥ ३३१॥
ततः खस्याः स्वस्या भूमेः खननम् । तदनन्तरं द्रुधणैरिष्टकाशकलानि प्रक्षिप्य तेषां कुट्टनम् । ततस्तस्योपरि इष्टकानां स्थापनम् , तच्च तावद् यावत् पीठम् । ततस्तस्य पीटस्योपरि प्रासादकरणम् । तदनन्तरं तेपां प्रासादानां रनैरापूरणम् । ततः सुखेन वासः-परिवसनम् ।
एष दृष्टान्तः, अयमर्थोपनयः--भूमिग्रहणस्थानीयं पुरुषग्रहणम् , शुद्धं पुरुष परीक्ष्य तस्य 25 प्रव्रज्यादानमित्यर्थः । ततः 'इति' एवमुक्तप्रकारेण नगरस्थानीये संयमे स्थाप्यते । तत उण्डिकास्थानीयं रजोहरणादि लिङ्गं दीयते । तदनन्तरं मिथ्यात्वस्याज्ञानस्य च कचवरस्थानीयस्य शोधनम् ॥ ३३२ ॥
ततः शोधयित्वा मिथ्यात्वं समूलभुत्खत्य स्थिरीकरणनिमित्तं सम्यक्त्वद्रुघणैर्यच्छेषमवतिष्ठते मिथ्यात्वपुद्गलात्मकं तत् कुट्टयित्वा भरगच्छन्नाग्निमिव कृत्वा तत उपरि इष्टकास्थापननिभानि 30 व्रतानि दीयन्ते । तत आवश्यकमादिं कृत्वा यावत् सूत्रकृतं तावत् पीठं भवति । ततो
यकाभ्यां प्रकृतं तौ कल्प-व्यवहारौ प्रासादस्थानीयौ दीयेते । तत्रार्थपदानि यानि तानि रत्ननिभानि ॥ ३३३ ॥
१पाउंति उता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org