________________
-
पदम्
पदार्थः
सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे
[ अनुयोगाधिकारः
यथोन्नतमपेक्ष्य निम्नस्य प्रसिद्धिः निम्नाच्चोन्नतस्य प्रसिद्धिः 'इति' एवम् ' अन्योऽन्यप्रसिद्धौ' उत्सर्गादपवादोऽपवादादुत्सर्गः प्रसिद्ध इति द्वावप्युत्सर्गा - ऽपवादौ तुल्यौ ॥ ३२१ ॥ तदेवमुत्सर्गापवादद्वारमुक्तम् । इदानीमत्पद्वारमुच्यते । शिष्यः पृच्छति - भगवन् ! किमुसर्गा अल्पे ? उतापवादाः ? उच्यते- तुल्याः । यत आह
जावया उस्सग्गा, तावइया चैव हुंति अववाया । जावइया अववाया, उस्सग्गा तत्तिया चेव ॥ ३२२ ॥
5
९८
25
30
यावन्त उत्सर्गास्तावन्तोऽपवादाः, यावन्तोऽपवादास्तावन्त उत्सर्गाः । कथम् ? इति चेद् उच्यते-सर्वस्यापि प्रतिषेधस्यानुज्ञाभावाद् द्वयेऽपि तुल्याः ॥ ३२२ ॥
10
साणे सहाणे, सेया बलिणो य हुंति खलु एए ।
सट्टा-पट्ठाणा, यहुंति वत्थूतो निफन्ना ॥ ३२३ ॥
शिष्यः पृच्छति-किमुत्सर्गः श्रेयान् बलवाँश्च ? उतापवादः ? | सूरिराह - 'एते खलु' उत्सर्ग अपवादाश्च खस्थाने स्वस्थाने श्रेयांसो बलिनश्च भवन्ति, परस्थाने परस्थानेऽश्रेयांसो दुर्बलाश्च । अथ किं स्वस्थानम् ? किंवा परस्थानम् ? अत आह— स्वस्थान- परस्थाने वस्तुतो 15 निष्पन्ने ॥ ३२३ ॥
अथ वस्त्वेव न जानामि, किं तद् वस्तु ? इति उच्यते -पुरुषो वस्तु । तथा चाह संथरओ सङ्काणं, उस्सग्गो असहुणो परद्वाणं ।
इय सट्टा परं वा न होइ वत्थू विणा किंचि ॥ ३२४ ॥ ‘संस्तरतः’ निस्तरत उत्सर्गः स्वस्थानम् अपवादः परस्थानम्, 'असहस्य' असमर्थस्य - य 20 संस्तरीतुं न शक्नोति तस्यापवादः स्वस्थानमुत्सर्गः परस्थानमिति । एवममुना प्रकारेण पुरुषलक्षणं वस्तु विना न किञ्चित् स्वस्थानं परस्थानं वा, किन्तु पुरुषो वस्तु संस्तरति न वेति अतः पुरुषात् स्वस्थानं परस्थानं वा निष्पद्यते । तत उक्तं प्राक् “खस्थान - परस्थाने वस्तुतो भवतो निष्पन्ने" ( गाथा ३२३ ) || ३२४ ॥ गतं सूत्रद्वारम् । अधुना पदद्वारमाहनाम निवाउवसग्गं, अक्वाइय मिस्सयं च नायव्वं । पंचविहं होइ पर्य, लक्खणकारेहिँ निद्दिद्धं ॥ ३२५ ॥
सम्प्रति "सेय - बलवंते" इति द्वारद्वयं व्याचिख्यासुराह
‘पञ्चविधं' पञ्चप्रकारं पदं 'लक्षणकारैः' पदलक्षणविद्भिः 'निर्दिष्टम्' आख्यातम् । तद्यथाअश्व इति नामिकम्, खलु इति नैपातिकम्, परि इत्यौपसर्गिकम्, पचति इत्याख्यातिकम्, संयत इति मिश्रम् ॥ ३२५ ॥ उक्तं पदम् । अधुना पदार्थद्वारमाह
हो पत्थो चहा, सामासिय तद्धिओ य धाउकओ । रुत्तिओ उत्थो, तिन्ह पयाणं पुरिल्लाणं ॥ ३२६ ॥ 'त्रयाणां पूर्वाणां पदानां' नाम-निपातौपसर्गिकाणां चतुर्विधः पदार्थो भवति । तद्यथासामासिकः तद्धितो धातुकृतो नैरुक्तश्च चतुर्थः । तत्र सामासिकः सप्तधा -
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org