________________
संज्ञा.
सूत्रम्
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः सूत्रं त्रिविधम् , तद्यथा-सञ्ज्ञासूत्रं कारकसूत्रं प्रकरणसूत्रं च । अथवा द्विविधं सूत्रम्"उस्सग्गे"त्ति औत्सर्गिकं "अववादि"त्ति आपवादिकम् । तत्र किं उत्सर्गा अल्पे ? उत अपवादाः । तथा उत्सर्गोऽपवादो वा स्वस्थाने श्रेयान् बलवाँश्च, अपरस्थानेऽवलवाँश्चा)याँश्च । एष द्वारगाथासमासार्थः ॥ ३१५॥ । साम्प्रतमेनामेव विवरीषुः प्रथमतः संज्ञासूत्रमाह
उवयार अनिदुरया, कज्जित्थीदाणमाहु नित्थका ।
जे छऍ आमगंधादि, आरं सन्ना सुयं तेणं ॥ ३१६ ॥ यत् सामयिक्या संज्ञया सूत्रं भण्यते तत् संज्ञासूत्रम् । यथा-"जे छेए से सागारियं परियाहरे।" तथा-'आमगंधा' इति "सवामगंधं परिन्नाय निरामगंधो परिवए" (आचारांग 10 श्रु० १ अ० २ उ० ५) तथा-'आरं'ति "आरं दुगुणेणं पारं एगगुणेणं' इति । यच्छेकः
सः 'सामारिकं' मैथुनं परियाहरे' परिवर्जयति । तथा आमम्-अविशोधिकोटिः, गन्धंविशोधिकोटिः, परिज्ञा द्विविधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, तत्र ज्ञपरिज्ञया सर्वमामगन्धं परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय निरामगन्धः सन् परि-समन्तात् ब्रजेत्
अप्रतिबद्धो विहरेदित्यर्थः । आरः-संसारस्तं 'द्विगुणेन' रागेण द्वेषेण च परिवर्जयति, 'पारं' 15 मोक्षस्तमेकेन गुणेन-राग-द्वेषपरिहारलक्षणेन साधयति । अथ कः संज्ञासूत्रेण गुणः ? इत्यत
आह-"उवयारे"त्यादि पूर्वार्द्धम् । संज्ञावचनं हि क्वचिजुगुप्सितेऽर्थे प्रयुज्यमानं तद्विषयमुपचारवचनं भवति । उपचारवचनेन च भण्यमाने तस्मिन् जुगुप्सितेऽर्थे न निष्ठरतेति अनिष्ठरता । तथाकार्ये समापतिते स्त्रियाः-साळ्याः सूत्रदानमाहुः पूर्वसूरयः, ततस्तस्याः साधुसमीपे पठन्त्याः सुखेनालापको दीयते, अन्यथा व्यक्तमभिधीयमाने कथा भिन्ना भवति, ततः 20 सा 'नित्थक्का' निर्लज्जा जायते । यादृशे च कार्ये साध्वी साधुसमीपे पठति तदुपरिष्टावक्ष्यते ।
तेन संज्ञासूत्रमिष्यते ।। ३१६ ॥ ___ कारगसूत्रं नाम यथा-आहाकम्मन्नं भुंजमाणे समणे निग्गंथे कइ कम्मपगडीओ बंधति ? गोयमा! आउवज्जाओ सत्त कम्मपगडीओ । से केणटेणं भंते! एवं वुच्चइ ? (श० १ उ० ९) इत्यादि प्रज्ञप्तेरालापकः । ननु सर्वज्ञप्रामाण्यादेवैतच्छुद्धीयते यथाऽऽधाकर्म 25 भुञ्जान आयुर्वर्जानां सप्तानां कर्मप्रकृतीनां बन्धकः, ततः कस्मादुच्यते "केनार्थेन भदन्त ! एवमुच्यते" इत्यादि ? तत आह
सबर्नुपमाणाओ, जइ वि य उस्सग्गओ सुयपसिद्धी ।
वित्थरओऽपायाण य, दरिसणमिइ कारगं तम्हा ॥ ३१७ ।। यद्यपि सर्वज्ञप्रामाण्यात् 'उत्सर्गतः' एकान्तेन श्रुतस्य सर्वस्यापि प्रसिद्धिः तथापि विस्तर30 तोऽपायानां दर्शनं स्यात् 'इति' तस्मादधिकृतार्थप्रसिद्धिकारकं “से केणटेण"मित्यादि सूत्रमुपन्यस्यते ॥ ३१७ ॥ इदानीं प्रकरणसूत्रमाह
१"जे छेए से सागारियं न सेवए" इति सूत्रमाचाराङ्गे श्रु० १ अ० ५ उ० १॥ २ °नुप्पामण्णा जति वि ता० ॥
कारक सूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org