________________
10
भाष्यगाथाः ३०९-१५] पीठिका ।
'तस्य' सूत्रस्य निरुक्तान्यमूनि-सूचयतीति सूत्रम्, अथवा सीव्यतीते सूत्रम् , यदि वा सुवतीति सूत्रम् , अथवाऽनुसरतीति सूत्रम् इति निरुक्तस्य भेदाः । नामानि पुनस्तस्य 'इमानि' सुप्तादीनि वक्ष्यमाणार्थानि भवन्ति ॥ ३११ ॥ तान्येवार्थतो व्याख्यानयति
पासुत्तसमं सुत्तं, अत्थेणाबोहियं न तं जाणे।
लेससरिसेण तेणं, अत्था संघाइया बहवे ॥ ३१२ ॥ __यथा द्वासप्ततिकलापण्डितो मनुष्यः प्रसुप्तः सन् न किञ्चित्तासां कलानां जानाति, एवमर्थेनाबोधितं न किञ्चिदर्थविशेषं जानाति । यदा त्वर्थेन प्रबोधितं भवति तदा सर्वेषां तदन्तजैतानां भावानां ज्ञायकमुपजायते, यथा स एव पुरुषः प्रबोधितस्तासां कलानाम् , अतः प्रसुप्तसमं सूत्रम् । अथवा श्लेषसदृशं तत् सूत्रं, तथाहि-तेन 'श्लेषसहशेन' तन्तुसदृक्षण बहवोऽर्थाः सङ्घातितास्ततः श्लेषसदृशम् ॥ ३१२ ॥ सम्प्रति 'अर्थस्य सूचनात्' (गा० ३१०) इति व्याख्यानयति
सूइज्जइ सुत्तेणं, सूई नट्ठा वि तह सुएणऽत्थो।
सिव्वइ अत्थपयाणि व, जह सुत्तं कंचुगाईणि ॥ ३१३ ॥ यथा सूची नष्टा 'सूत्रेण सूच्यते' सूत्रेणैवोपलक्ष्यते तथा श्रुतेनार्थः सूच्यत इति अर्थस्य सूचनात् सूत्रम् । एतेन 'सूचयति' (गा० ३११) इति निरुक्तं व्याख्यातम् । अधुना 15 'सीव्यति' (गा० ३११) इति व्याख्यानयति-यथा सूत्रं कञ्चकादीनि सीव्यति एवमर्थपदान्यनेकानि सीव्यतीत्यर्थस्य सीवनात् सूत्रम् ॥ ३१३ ॥ "सुवति ति" (गा० ३११) अस्य व्याख्यानमाह
सूरमणी जलकतो, व अत्थमेवं तु पसवई सुत्तं ।
वणियसुयंध कयवरे, तदणुसरंतो रयं एवं ॥ ३१४॥ यथा सूर्यकान्तोऽग्नौ जलकान्तो जले दीप्ति श्रवति एवं सूत्रमर्थ प्रसवतीति सूत्रम् । अनुसरणं द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतो वणिक्सुतोऽन्धः कचवरे दृष्टान्तः
एकस्य वणिजः पुत्रोऽन्धः । वणिजा चिन्तितम्-मा एष वराकोऽनिर्विष्टं भक्तं भुङ्गाम् , 'परिभवस्थानमन्यथा गाढतरं भविष्यति' इति द्वौ स्तम्भौ निहत्य तत्र रज्जुर्बद्धा । ततः सोऽन्धपुत्रो रज्वनुसारेण कचवरं बहिस्त्याज्यते ।।। ___ एष दृष्टान्तोऽयमर्थोपनयः-वणिक्स्थानीय आचार्यः, अन्धस्थानीयाः साधवः, रज्जुस्थानीयं सूत्रम् , कचवरस्थानीयमष्टप्रकारं कर्म । तथा चाह-एवं' वणिक्सुतान्धदृष्टान्तप्रकारेण 'तत्' सूत्रमनुसरन् 'रजः' अष्टप्रकारं कमें कचवरस्थानीयमपनयति, ततः सरणात् सूत्रम् । सुष्ठुक्तं सूक्तमिति नाम तु सुप्रतीतमिति न व्याख्यातम् ॥ ३१४ ।। अर्थ तत् सूत्रं कतिविधम् ? इत्यत आहसन्ना य कारगे पकरणे य सुत्तं तु तं भवे तिविहं ।
सूत्रस्य उस्सग्गे अववाए, अप्पे सेए य बलवंते ॥ ३१५ ॥
मेदाः १णिसुय अंध ता.॥
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org