________________
ख्याल
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः प्रत्ययः । पा पाने, आङ् मर्यादायामभिविधौ वा, तस्य तिपि आपिबतीति रूपम् । रस आखादने, रस्यते-आखाद्यत इति रसः, कर्मण्यौणादिकः अकारप्रत्ययः, तम् । अत्र व्यस्तपदत्वाद्विग्रहाभावः, तथा चाह-"तदत्थहेऊ अविग्गहो चेव" तेषां-पदानामर्थस्य हेतुः 'अविग्रह एव' न विग्रहद्वारेणात्र पदार्थ इत्यर्थः । अत्र चालना-नोदक आह-'कः' कीह5 ग्लक्षणो द्रुम उक्तः १ । सूरिराह-भण्यते, 'पत्राद्युपेतः' पत्र-पुष्प-फलादिसमन्वितः । उक्तञ्च
पत्र-पुष्प-फलोपेतो, मूल-स्कन्धसमन्वितः ।
एष वृक्ष इति ज्ञेयो, विपरीतमतोऽन्यथा ।। यदि पत्राद्युपेतो द्रुमस्तर्हि यदा परिशटितपाण्डुपत्रादिर्दुमो भवति तदा तस्याद्रुमत्वं प्रामोति, एषा चालना । अत्र प्रत्यवस्थानम्-'तदभावेऽपि स द्रुमः' इति प्रतिज्ञा, 'तद्गुण10लब्धित्वात्' इति हेतुः, दृष्टान्तो रथकारः; यथा हि रथकारस्य रथकरणे प्रयत्नमकुर्वाणस्यापि रथकर्तृत्वं तद्गुणलब्धित्वात्, एवं परिशटितपाण्डुपत्रस्यापि द्रुमस्य तद्गुणलब्धेरनिवृत्तत्वादव्या
हतं द्रुमत्वमिति ।। ३०८ ।। सम्प्रति मतान्तरेणान्यथा व्याख्यालक्षणमाहमतान्त
सुत्तं पयं पयत्थो, पयनिक्खेवो य निन्नयपसिद्धी । रेण व्या
पंच विगप्पा एए, दो सुत्ते तिनि अत्थम्मि ॥ ३०९ ॥ क्षणम् 16 प्रथमतोऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् । ततः 'पदं' पदच्छेदो विधेयः । तदन
न्तरं पदार्थः कथनीयः । ततः 'पदनिक्षेपः' पदार्थनोदना । तदनन्तरं 'निर्णयप्रसिद्धिः' निर्णयविधानम् । पदविग्रहः पदार्थेऽन्तर्भूतः । एवमेते पञ्च 'विकल्पाः' प्रकारा व्याख्यायां भवन्ति । अत्र सूत्रं पदमिति द्वौ विकल्पौ सूत्रे प्रविष्टौ । 'त्रयः' पदार्थ-तदाक्षेप-निर्णयप्रसिद्ध्यात्मका अर्थ इति ॥३०९॥ यदुक्तमधस्तात् "सूत्रनिरुक्तमुपरि वक्ष्यामि" (गा० १८८) 20 इति तद् वक्तुकाम आह
सुत्तं तु सुत्तमेव उ, अहवा सुत्तं तु तं भवे लेसो।
__ अत्थस्स सूयणा वा, सुवुत्तमिई वा भवे सुत्तं ॥३१० ॥ ___ अर्थेन अबोधितं सुप्तमिव सुप्तं प्राकृतशैल्या सुत्तं । अथवा सूत्रं नाम तद् भवति 'श्लेषः'
तन्तुरूपमित्यर्थः, तथा (यथा) तन्तुना द्वे त्रीणि बहूनि वा वस्तूनि एकत्र संहन्यन्ते । एवमे25 केनापि सूत्रेण बहवोऽर्थाः सङ्घात्यन्त इति सूत्रमिव सूत्रम् । अर्थस्य सूचनाद्वा सूत्रम् । सुष्टु उक्तमिति वा सूक्तम् , प्राकृतशैल्या तु सुत्तमिति ॥ ३१० ॥ सम्प्रति सूत्रशब्दस्यैव निरुक्तान्याह
नेरुत्तियाइँ तस्स उ, सूयह सिव्वइ तहेव सुवइ त्ति ।
अणुसरति त्ति य भेया, तस्स उ नामा इमा हुंति ॥ ३११ ॥ १°तस्ततो मो० डे० ॥ २ चूर्णिकारेण "सुत्तं पयं." इति गाथयाऽनन्तरमेवोच्यमानं व्याख्यालक्षणं मौलिकत्वेनाङ्गीकृतम्, “संहिया य०" (गा० ३०२) इत्यादिनोक्तं पुनर्व्याख्यालक्षणं मतान्तरतयोपदर्शितम् । दृश्यतां पत्र ९२ टि. २ ॥ ३ त ता०॥ ४ सूतणा ता० ॥ ५°मित्ति व भ° ता.॥ ६ एगट्ठियाई तस्स ता० । गायेयं चूर्णिकृता "पासुत्त०" ३१२ गाथाऽनन्तरं विवृता वर्तते ।।
सूत्र
निरुकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org