________________
९३
चालना
भाष्यगाथाः ३००-३०८] पीठिका । ___ 'यथा धूमकेतुः' इति संहितासूत्रं त्रिपदम् । सम्प्रति पदार्थ उच्यते-यथेत्यौपम्ये, धूम इत्यभिभवे, “धूवि धूनने" इति वचनात् , केतुरित्युच्छ्ये । एष पदार्थः । धूमः केतुरस्येति धूमकेतुरिति पदविग्रहः । कोऽसौ ? इति चेत् अग्निः । एवमुक्ते पुनराह-स किंलक्षणेः । सूरिराह-'दहन-पचनादि' दहन-पचन-प्रकाशनसमर्थोऽर्चिष्मान् ॥ ३०४ ॥ __ अत्र चालनां प्रत्यवस्थानं चाह
जइ एव सुत्त-सोवीरगाई वि होंति अग्गिमक्खेवो । न वि ते अग्गि पइन्ना, कसिणग्गिगुणनिओ हेऊ ॥ ३०५ ॥ प्रत्यव
स्थानं च दिलुतो घडगारो, न वि जे उक्खेवणाइ तकारी ।
जम्हा जहुत्तहेऊसमनिओ निगमणं अग्गी ॥ ३०६॥ यदि नाम दहन-पचनादिस्तर्हि शुक्ल-सौवीरकादयोऽपि दहन्ति, करीषादयोऽपि पचन्ति, 10 खद्योत-मणिप्रभृतयोऽपि प्रकाशयन्ति ततस्तेऽप्यनिर्भवितुमर्हन्ति, एषः 'आक्षेपः' चालना । अत्र प्रत्यवस्थानमाह-'नैव शुक्लादयोऽग्निर्भवन्ति' इति प्रतिज्ञा, 'कृन गुणसमन्वितत्वात्' इति हेतुः, दृष्टान्तो घटकारः, यथा हि घटकर्ता मृत्पिण्ड-दण्ड-चक्र-सूत्रोदक-प्रयत्नहेतुकस्य घटस्य कात्स्न्येनाभिनिवर्तकः, अभिनिवृत्तस्य चोत्क्षेपणोद्वहनसमर्थः, यथाऽन्ये पुरुषाः; न च ये घटस्योत्क्षेपणादयस्तत्कारी घटस्याभिनिवर्तकः । एवमत्रापि यो दहति पचति प्रकाशयति 15 च यथास्वगतेन लक्षणेनासाधारणः स एव यथोक्तहेतुसमन्वितः परिपूर्णोऽग्निर्न शुक्लादय इति निगमनम् ॥ ३०५ ॥ ३०६ ॥ सम्प्रति लोकोत्तरे संहितादीनि दर्शयतिउत्तरिऍ जह दुमाई, तदत्थहेऊ अविग्गहो चेव ।
लोकोत्तरे को पुण दुमु त्ति वुत्तो, भण्णइ पत्ताइउववेओ ॥ ३०७ ।।
संहितातदभावे न दुमु त्ति य, तदभावे वि स दुमु त्ति य पइन्ना ।
तगुणलद्धी हेऊ, दिलुतो होइ रहकारो ॥ ३०८ ।। लोकोत्तरे "जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं" (दश० अ० १ गा० २) इति संहिता । अत्र पदानि-यथा इति द्रुम[स्य] इति पुप्पेष्विति भ्रमर इति आपिबतीति रसमिति । अधुना पदार्थ उच्यते-'यथा' इत्यौपम्ये । हुँ गतौ, द्रवति-गच्छति अध उपरि चेति द्रुमः, औणादिको मक्प्रत्ययः, तस्य दुमस्य । पुष्प विकसने, पुष्पन्ति-विकसन्तीति 23 पुष्पाणि, अच् , तेषु । भ्रम अनवस्थाने, भ्राम्यति निरन्तरमिति भ्रमरः, औणादिको अरः १ “एकपदलान्नास्ति विग्रहः" इति चूर्णी ॥
२°ग्गि अक्खे ता.॥ ३ “अत्र प्रसिद्धिं करोत्याचार्यः-यदभिहितमनेन 'यदि दहनादिलक्षणोऽनिर्भवति तेन तर्हि शुक्ला. दयोऽप्यग्निर्भवन्ति' इत्यत्र ब्रूमः-'असदेतत्' इति नः प्रतिज्ञा, 'कृत्स्नाग्निगुणसमन्वितत्वात्' इति हेतुः, दृष्टान्तो घटकारः, यथा हि घटकर्ता मृत्पिण्ड-चक्र-सूत्रोदक-प्रयत्नहेतुकस्य घटस्य कात्स्येनाभिनिर्वर्तको भवति अभिनिवृत्तस्य चोरक्षेपणोद्वहनसमर्थों यथा भवति तथाऽन्येऽपि पुरुषाः, नारक्षेपणोद्वहनादिसामादेव तेषां घटकर्तृवं भवति, किमेवं न गृह्यते ? घटकर्तुरेवैकस्य घटकारलं विद्यते नेतरेषाम् ? तस्मात् कृत्न गुणान्वितखात् पश्यामोऽमेरेवैकस्याग्निलं विद्यते न शुक्लादीनामिति निगमनम् ।" इति चूर्णिः॥
४"दु द्रु गतो, द्रुमः, दोहिं वा मातो द्रुमः ।" इति न्चूर्णिः ॥
20 दीनां यो
जनम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org