________________
९२
10
सनियुक्ति-भाष्य-वृत्तिके बृहस्कल्पसूत्रे [अनुयोगाधिकारः अत्र गुरु-लघुविशेषविस्तरपरिज्ञानार्थमाचार्यस्त्रिविधं प्रायश्चित्तं दर्शयति, तद्यथा-दानप्रायश्चित्तं तपःप्रायश्चित्तं कालप्रायश्चित्तं च । तत्र दानप्रायश्चित्तं गुरुकं लघुकं च । एवं तपः-कालप्रायश्चित्ते अपि गुरु-लधुके प्रत्येकं वक्तव्ये । तत्र दानप्रायश्चित्तं गुरुकमाह
जे तु निरंतरदाणं, जस्स व तस्स व तवस्स तं गुरुगं ।
जे पुण संतरदाणं, गुरू वि सो खलु भवे लहुओ ॥ ३०० ॥ यस्य वा तस्स वा तपसो गुरुकस्याष्टमादेरगुरुकस्य निर्वृतिकादे(निर्विकृतिकादे)यन्निरन्तरदानं तद् भवति दानप्रायश्चित्तं गुरु । यत् पुनः सान्तरमष्टमादेर्गुरुकस्य तपसो दानं तद् गुर्वपि खलु भवति लघु, यथा-आपत्तिश्चतुर्लघुकस्य षड्लघुकस्य वा तत्राष्टम-दशमानि सान्तराणि दीयन्ते । एष दानप्रायश्चित्ते गुरु-लघुकयोर्विशेषः ॥ ३०० ॥ सम्प्रति तपः-कालयोराह
काल-तवे आसज व, गुरू वि होइ लहुओ लहू गुरुगो।
कालो गिम्हो उ गुरू, अट्ठाइ तवो लहू सेसो ॥ ३०१ ॥ कालं तपश्चासाद्य गुर्वपि लघु भवति, लवपि च गुरु । तत्र कालो ग्रीष्मो गुरुः, तपोsष्टमादि, शेषः कालस्तपश्च लघु । इयमत्र भावना-लध्वपि यद अष्टमादिना तपसा उह्यते तत् तपोगुरु, यन्निर्विकृतिकादिना षष्ठपर्यन्तेनोह्यते तत् तपोलघु; तथा यद् ग्रीष्मे काले उह्यते 15 तत् कालगुरुं, वर्षाराने हेमन्ते वोह्यमानं काललघु ॥ ३०१ ॥ तदेवं यतः स्खलिताधुच्चारणे
प्रायश्चित्तमाज्ञा-ऽनवस्था-मिथ्यात्व-विराधनाश्व दोषाः तस्मात् सूत्रं स्खलितादिदोषरहितमुच्चारणीयं पठनीयं च । एवं च पठितस्य सूत्रस्य व्याख्या कर्तव्या । तत्र व्याख्यालक्षणमाह
संहिया य पयं चेव, पयत्थो पयविग्गहो। षड् मेदाः
चालणा य पसिद्धी र्य, छव्विहं विद्धि लक्खणं ॥ ३०२ ॥ 20 संहिता १ पदं २ पदार्थः ३ पदविग्रहः ४ चालना ५ प्रसिद्धिश्च ६ । एवं षड्डिधं' षट्प्रकारं व्याख्यालक्षणं 'विद्धि' जानीहि ॥ ३०२ ॥ तत्र संहितेति कोऽर्थः ? इत्याह
सन्निकरिसो परो होइ संहिया संहिया व जं अत्था। संहिता
लोगुत्तर लोगम्मि य, हवइ जहा धूमकेउ त्ति ॥ ३०३ ॥ यो द्वयोर्बहूनां वा पदानां 'परः' अस्खलितादिगुणोपेतो विविक्ताक्षरो झटिति मेधाविना25 मर्थप्रदायी 'सन्निकर्षः' सम्पर्कः स संहिता । अथवा यद् अर्थाः संहिता एषा संहिता । सा द्विधा-लौकिकी लोकोत्तरा च । तत्र लौकिकी 'यथा धूमकेतुः' इति, यथा इति पदं धूम इति पदं केतुरिति पदम् ॥ ३०३ ॥
तिपयं जह ओवम्मे, धूम अभिभवे केउ उस्सए अत्थो। पदार्थः पदवि
को सुत्ति अग्गि उत्ते, किंलक्खणो दहण-पयणाई ।। ३०४ ।। प्रहर
१गिंभो उ ता० ॥२ अत्र चर्णिकृता "तेण दोसविउत्तं सुत्तं विधीये उच्चारेयव्यं" इत्यवतीर्य "सुत्तं पदं पदत्यो." इति गाथा ३०९ व्याख्याताऽस्ति । तदनन्तरं च “अण्णे भणंति" इत्यवतीर्य “संहिता य पदं०" इति गाथा ३०२ व्याख्याताऽस्ति ॥ ३ संघिया ता० ॥ ४ य पंचहा वि° ता० ॥ ५ को सो त्ति ता०॥
व्याख्यायाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org