________________
15.
भाष्यगाथाः २९६-९९] पीठिका । द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतो मिलितं बहूनां व्रीहि-यवादीनां धान्यानामेकत्र मिश्रीकृतानां वापनता-वापनम् । भावतो मिलितं यद् अन्यस्यान्यस्योद्देशकस्याध्ययनस्य वा आलापकानेकत्र मीलयति सर्व जिनवचनमिति कृत्वा । यथा--"सत्वे पाणा पियाउगा" (आचा० श्रु० १ अ० २ उ० ३) “सबजीवा वि इच्छंति, जीविडं न मरिजिउं" [दश.अ.६ गा.११] न नज्जड़ किं कालिय उक्कालिय छेयसुय वा ? । अत्र प्रायश्चित दीपाश्च प्राग्वत् । 5 परिपूर्ण द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतः परिपूर्णो घटः । भावे परिपूर्ण मात्रादिभिःमात्राभिः आदिग्रहणात् पदैः बिन्दुभिः वर्णैः-अक्षरैश्चापरिपूर्णे तदेव प्रायश्चित्तं दोषाश्च । मात्राभिरपरिपूर्ण यथा-"धम्म मंगलमुक्कटुं" । पदैरपरिपूर्ण यथा-"धम्मो उक्टिं" । बिन्दुभिरपरिपूर्ण यथा-"धम्मो मंगलमुक्किट्ठ" इति । वर्णैरपरिपूर्णं यथा-"धं में ल उक्कटुं" इत्यादि । घोषा उदात्तादयः, तत्र उच्चैरुदात्तः, नीचैरनुदात्तः, समाहारः स्वरितः । उच्चैःशब्देन यथा-10 "उप्पन्ने इ वा" इत्यादि । नीचैःशब्देन यथा-"जे भिक्खू हत्थकम्मं करेइ" (निशीथ उ०१ सू. १) इत्यादि । घोषैरयुक्तं कुर्वतस्तदेव प्रायश्चित्तं त एव च दोषाः ॥ २९७ ।। सम्प्रति व्यत्यानेडितादीनां पञ्चानां प्रकारान्तरेणार्थमभिधातुकाम आहमुत्तूण पढम-बीए, अक्खर-पय-पाय-बिंदु-मत्ताणं ।
व्यत्याने
डितादिसव्वेसि समोयारो, सट्टाणे चेव चरिमस्स ॥ २९८ ॥
पदानां प्रथम-हीनाक्षरं द्वितीयम्-अधिकाक्षरम् एते द्वे पदे मुक्त्वा शेषाणां पञ्चानां घोषयुतवर्जा- व्याख्यानाम् अक्षर-पद-पाद-बिन्दु-मात्राणां समवतारः कर्त्तव्यः । यथा-व्यत्यानेडितं नामान्यान्य- न्तरम् शास्त्राणामक्षरैः पदैः पादैबिन्दुभिर्मात्राभिर्घोषैर्वा । व्याविद्धं तस्यैव शास्त्रस्य अधस्तनान्युपरि उपरितनान्यधोऽक्षर-पदा[दी]नि यत् करोति । स्खलितं पञ्चभिरेव पदादिभिः । मिलितं यथासामायिकपदे दशवकालिकोत्तराध्ययनप्रभृतीनामनेकानि पदानि मीलयति । अपरिपूर्ण 20 पञ्चभिरेवाक्षरादिभिः स्वगतैः । “सट्टाणे चेव चरिमस्स" [अ]घोषयुतं घोषैरेवापरिपूर्ण नाक्षरादिभिः ॥ २९८ ॥ साम्प्रतमेतेषु हीनाक्षरादिषु प्रायश्चित्तमाहखलिय मिलिय वाइद्धं, हीणं अच्चक्खरं वयंतस्स ।
सूत्रं हीना. विच्चामेलिय अप्पडिपुने घोसे य मासलहुं ।। २९९ ॥
क्षराद्यु-. स्खलितं मिलितं व्याविद्धं हीनाक्षरमत्यक्षरं व्यत्यानेडितमपरिपूर्णघोषं च वदतः प्रत्येकं 25 प्रा. प्रायश्चित्तं मासलघु । खामिन आज्ञाभङ्गे चतुर्गुरु, यथा स तथाऽन्येऽपि करिष्यन्तीति चतुर्गुरु। त्तम् । यथोक्तकारी न भवतीति मिथ्यात्वे चतुर्लघु । विराधना द्विविधा-आत्मविराधना संयमविराधना च । आत्मविराधना-देवतया छलनम् । संयमविराधना-कोऽपि साधुर्वारयेत् ‘मा स्खलितादीनि कुरु' ततः कलहतोऽस्थिभङ्गाद्यात्मविराधनायां परिताप-महाग्लानाद्यारोपणा संयमविराधना । सूत्रस्यान्यथोच्चारणेऽर्थविसंवादः, अर्थविसंवादे चरणाभावः, चरणाभावे मोक्षाभाव इति 30 दीक्षा निरर्थिका । लघुग्रहणाद् गुरुकमपि सूचितम् , इखोत्या यथा दीर्घस्य सूचनम् । तत्र गुरुकमिति वा अनुद्धातीति वा कालकमिति वा गुरुकस्य नामानि । लघुकमिति वा उद्धातितमिति वा शुक्लमिति वा लघुकस्य नामानि ॥ २९९ ॥
१°द्धातमि डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org