________________
भाष्यगाथाः २७७-८२]
पाठिका। 'अयुक्तं' यद् बुद्ध्या विचिन्त्यमानं न युक्तिं सहते, यथा
तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः ।
प्रावर्त्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥ १२ ॥ २७८ ॥ क्रमभिन्नं यथा-धरणीधरेन्द्र-चन्द्र-पद्म-सागरान् गम्भीर-नयन-मुख-बल-स्थैर्यगुणैर्जयति १३ । 'वचनभिन्नं' यत्रैकवचनप्रसङ्गे द्विवचन बहुवचनं वा क्रियते, द्विवचन बहुवचनव्य-5. त्यासो वा १४ । 'विभक्तिभिन्नं' यत्र विभक्तेरन्यथा प्रयोगः १५ । 'लिङ्गभिन्नं' यत्र स्त्रीलिङ्गे. पुल्लिङ्गं नपुंसकलिङ्गं वा क्रियते, एवं शेषयोरपि द्रष्टव्यम् १६ । 'अनभिहितं' नाम यत् खसमयेऽनुक्तमात्मन इच्छया भण्यते १७ । 'अपदं' नाम यत्र गाथापदे गीतिकापदं वानवासिकापदं वा क्रियते १८ । 'स्वभावहीनं' यस्य यो यत्रात्मीयः खभावस्तेन तत् शून्यमभिधीयते, यथा-स्थिरो वायुरिति १९ । 'व्यवहितं' नाम यत्र किञ्चिद् निर्दिश्याऽन्यद् विस्तरेण 10. वर्णयित्वा पुनस्तत् प्रकृतमभिधीयते २० ॥ २७९ ॥
कालदोषो यत्रातीता-ऽनागत-वर्तमानकालव्यत्यासकरणम् २१ । यतिः नाम विश्रामस्तस्य दोषो यतिदोषः, यत्र श्लोके गाथायां वृत्ते वा खलक्षणप्राप्तः पदच्छेदो न क्रियतेऽस्थाने वा क्रियते, यथा
जयति जईणं पवरो, गुणनिगरो नाणकिरणउज्जोओ।
लोईसरो मुणिवरो, सिरिवच्छधरो महावीरो ॥ २२ ।। छविदोषो नाम यत्र परुषा छविः क्रियते २३ । समयविरुद्धं यथा-वैशेषिको ब्रूते 'प्रधानं कारणम्' जैनो वदति 'नास्ति जीवः' इत्यादि २४ । वचनमात्रं यथा-कश्चिस्कीलकं निहत्य ब्रूयात्-इदं लोकमध्यमित्यादि २५ । अर्थापत्तिदोषो यथा-ब्राह्मणो न हन्तव्यः अर्थादापन्नं शेषजनो हन्तव्य इति २६ । 'असमासदोषः' यत्र समासे प्राप्ते समा- 20 सरहितानि पदानि भण्यन्ते २७ ॥ २८० ॥
उपमादोषो यथा-काञ्जिकमिव ब्राह्मणस्य सुरा पेया २८ । रूपकदोषो यथा-पर्वतो रूप्यमान आत्मीयैरङ्गैः शून्यो वर्ण्यते २९ । 'परप्रवृत्तिदोषः' यत्र सुबहुमप्यर्थ वर्णयित्वा निर्देशं न करोति ३० । 'पददोषः' स्याद्यन्ते तिवाद्यन्तं तिवाद्यन्ते वा स्याद्यन्तं करोति ३१।। 'सन्धिदोषः' यत्र भवन्नपि सन्धिर्न क्रियते विसर्गलोपं वा कृत्वा पुनः सन्धि करोति ३२ । 25 एते द्वात्रिंशत्सूत्रदोषा भवन्ति ज्ञातव्याः ॥ २८१ ॥ अष्टभिर्गुणैरुपेतमित्युक्तम् अतस्तानेवाष्टौ गुणानाह
निदोसं सारवंतं च, हेउजुत्तमलंकियं ।
उवणीयं सोवयारं च, मियं महुरमेव य ॥ २८२॥ निर्दोषं १ सारवत् २ हेतुयुक्तम् ३ अलङ्कृतम् ४ उपनीतं ५ सोपचारं ६ मितं ७ 30 मधुरम् ८ इति ॥ २८२ ॥ तत्र निर्दोषादिपदव्याख्यानार्थमाह
१ "गुणणिगरो कामियनिरुवमसुहओ" इति चूर्णौ ॥ २ “छविः अलङ्कारविशेषः" इति आव० हारि० वृत्तौ पत्र ३७५ ॥
सूत्रस्याटौ गुणाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org