________________
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे
[अनुयोगाधिकारः
त्सूत्रस्य 10
15
सूत्रस्य
अप्परगंथ महत्थं, बत्तीसादोसविरहियं जं च । लक्षणानि
लक्खणजुत्तं सुत्तं, अट्ठहि य गुणेहि उववेयं ॥ २७७॥ 'अल्पग्रन्थम्' अल्पाक्षरम् महार्थम् , अत्र चत्वारो भङ्गाः-अल्पाक्षरमल्पार्थम् यथाकार्पासादिकम् , अल्पाक्षरं महार्थम् यथा-सामायिक-कल्प-व्यवहारादि, महाक्षरमल्पार्थम् 5 यथा-"जीमूते इति वा अञ्जणे इति वा” इत्यादिभिर्बहुभिरक्षरैर्वर्णव्यावर्णनम् , महाक्षरं महार्थम् यथा-दृष्टिवादः । तत्र यद् अल्पाक्षरं महार्थं तादृशं सूत्रमिप्यते । तथा यद् द्वात्रिंशद्दोषविरहितं तदिप्यते । ते च द्वात्रिंशद्दोषा वक्ष्यमाणाः । तथाऽष्टभिर्गुणैर्वक्ष्यमाणैर्यद् उपेतं तदिप्यते । एवम्भूतं सूत्रं लक्षणयुक्तम् ॥ २७७ ॥ अधुना द्वात्रिंशद्दोषानाह
अलियमुवघायजणयं, अवत्थग निरत्थयं छलं दुहिलं । द्वात्रिंश
निस्सारमहियमूणं, पुणरुत्तं वाहयमजुत्तं ॥ २७८ ॥ दोषाः
कमभिन्न वयणभिन्नं, विभत्तिभिन्नं च लिंगभिन्नं च । अणमिहियमपयमेव य, सभावहीणं ववहियं च ॥ २७९ ॥ काल-जइ-च्छविदोसो, समयविरुद्धं च वयणमित्तं च । अत्थावत्तीदोसो, हवइ य असमासदोसो उ ॥ २८० ॥ उवमा-रूवगदोसो, परप्पवत्तीय संघिदोसो य ।
एए उ सुत्तदोसा, बत्तीसं हुंति नायव्वा ॥ २८१ ॥ अलीकं द्विविधम्-अभूतोद्भावनं भूतनिह्नवश्च । तत्राभूतोद्भावनं यथा-श्यामाकतन्दुलमात्रो जीव इत्यादि । भूतनिह्नवो यथा-नास्ति जीव इत्यादि १। 'उपघातजनक' यत् परस्योपघाते वर्तते, यथा-"न मांसभक्षणे दोषः" (मनुस्मृति अ० ५ श्लो० ५६) इत्यादि २ । 20 'अपार्थकं' यस्यावयवेष्वों विद्यते न समुदाये, असम्बद्धमित्यर्थः, यथा-"शङ्खः कदल्यां कदली च भेर्याम्" अथवा
वंजुलपुप्फुम्मीसा, उंबर-वडकुसुममालिया सुरभी । वरतुरगस्स विरायइ, ओलइया अग्गसिंगेसु ॥
३। 'निरर्थकं' यस्यावयवेष्वर्थो न विद्यते, यथा-डित्थः डवित्थः वाजनः ४ । छलं यथा25 अस्त्यात्मा यद्यस्ति आत्मा तर्हि यद् यदस्ति स स आत्मा प्रामोति, नवकम्बलो देवदत्त इत्यादि वा ५ । द्रोहणशीलं गुहिलं यत् पुण्य-पापापलपनादि, यथा
एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः।। इत्यादि ६ । 'निस्सारं' यत्र सारः-अर्थो न विद्यते, यथा-अस्थि-चर्मशिलापृष्ठं वृद्धाः ७ । 'अधिक' यत्
पञ्चानामवयवानामन्यतरेण समधिकम् ८ । 'ऊनम्' एषामन्यतमेन हीनम् ९ । पुनरुक्तं त्रिवि30 धम्-अर्थपुनरुक्तं वचनपुनरुक्तं उभयपुनरुक्तं च । तत्रार्थपुनरुक्तं यथा-इन्द्रः शक्रः पुरन्दर इति, वचनपुनरुक्तं यथा-सैन्धवमानय लवणं सैन्धवमानयेत्यादि, उभयपुनरुक्तं यथा-क्षीरं क्षीरम् १०। 'व्याहतं' यत्र पूर्वमपरेण बाध्यते, यथाकर्म चास्ति फलं चास्ति, भोक्ता नास्ति च निश्चयः ।
११ । १ लिंगविभिन्नं विभत्तिभिन्नं च ता. विना ॥ २ य ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org