SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २६८-७६ ] पीठिका | ८३. 'एकैकम्' अध्ययनादिकं यथा अनुयोगद्वारे तथा नामादीनां भेदतश्चतुर्धा विभाष्य चतुर्ष्वपि 'तत्र' तेष्वध्ययनादिषु 'भावे' भावविषये तु कल्पाध्ययनमिदं समवतरति ॥ २७२ ॥ गत ओघनिष्पन्नो निक्षेपः । सम्प्रति नामनिप्पन्नमाह नामे छवि कप्पो, दव्वे वासि - परसादिएहिं तु । खेत्ते काले जहुवकमम्मि भावे उ पंचविहो ॥ २७३ ॥ नामनिष्पन्ने निक्षेपे कल्प इति नाम । स च षोढा, तद्यथा - नामकल्पः स्थापनाकल्पो द्रव्यकल्पः क्षेत्रकल्पः कालकल्पो भावकल्पश्च । तत्र नाम - स्थापने प्रतीते । व्यकल्पो येन वासी- परश्वादिना द्रव्येण कल्प्यते तद् द्रष्टव्यम् । क्षेत्रकल्पो यथाक्षेत्रोपक्रमः । कालकल्पो यथाकालोपक्रमः । भावकल्पः 'पञ्चविधः ' पञ्चप्रकारः || २७३ ॥ तमेवाह छवि सत्तविहे वा, दसविह वीसइविहे य बायाला । जस्स उ नत्थि विभागो, सुव्त्रत्त जलंधकारो से ॥ २७४ ॥ भवतः कल्पः षडिधः सप्तविधो दशविधो विंशतिविधो द्वाचत्वारिंशद्विधश्च । एते पञ्चापि प्रकाराः पञ्चकल्पे व्याख्यातास्तथा ज्ञातव्याः । यस्य त्वेषः 'विभागः ' पञ्चप्रकार भावकल्पपरिज्ञानं नास्ति 'से' तस्य सुव्यक्तं जडान्धकारः ॥ २७४ ॥ गतो नामनिप्पन्नो निक्षेपः । सम्प्रति सूत्रालापकन्रिप्पन्नं प्रत्याह पत्तो वि न निक्खिप्पर, सुत्तालावस्स इत्थ निक्खेवो । सुत्तागमे वैच्छं, इति अत्थे लाघवं होइ ॥ २७५ ॥ नामनिष्पन्नो 5 निक्षेपः 10 15 सूत्रालापकनि पन्नो यद्यपि सूत्रालापकस्य निक्षेपः 'प्राप्तः ' प्राप्तावसरस्तथापि स प्राप्तोऽपि 'अत्र' निक्षेपप्रक्रमे निक्षेपः न निक्षिप्यते, किन्त्वितोऽस्ति तृतीयमनुयोगद्वारमनुगम इति तत्र सूत्रानुगमे वक्ष्ये । यतः 'इति' एवं सति अर्थे लाघवं भवति । तथाहि - सूत्रालाप कनिक्षेपः सूत्रगतानामालापकानां 20 निक्षेपः, ते च सूत्रगता आलापाः सूत्रे सति सम्भवन्ति, ततः सूत्रानुगम एव तनिक्षेपो ज्यायान्, इह तु तन्निक्षेपकरणे महत् प्रतिपत्तिकष्टम् || २७५ ॥ अनुगमे च त्रीणि द्वाराणि, तद्यथा - लक्षणं तदह पर्षत् सूत्रार्थश्च । प्रथमं लक्षणद्वारमाह लक्षणद्वारम् लक्खणओ खलु सिद्धी, तदभावे तं न साहए अत्थं । सिद्धमिदं सव्वत्थ वि, लक्खणजुत्तं सुयं तेण ॥ २७६ ।। इह लक्षणहीनं सूत्रं न भवति, यतो लक्षणयुक्तस्य सूत्रस्यार्थः लक्षणहीनस्य त्वर्थाभावः, ततो यन्निमित्तमुपनिबद्धं सूत्रं तस्याप्रसिद्धिरेव । तथा चाह - लक्षणतः खलु विवक्षितस्यार्थस्य सिद्धिः, तदभावे' लक्षणाभावे 'तत्' सूत्रं न साधयति विवक्षितमर्थम् । इदं च 'सर्वत्रापि ' लोके सिद्धम्-यत् किञ्चिन्मण्यादि द्रव्यं लाभार्थं क्रीतं तलक्षणहीनं लाभं न साधयति । 30 तेन कारणेन लक्षणयुक्तं सूत्रमिप्यते ॥ २७६ ॥ अथ कीदृशं लक्षणयुक्तं सूत्रम् ? अत आह— १ परसुमाईसु । खेत्ते ता विना ॥ २ "दव्वकप्पो जं वासि परसुमादीहिं दव्वेहिं किंपि कपिजति" इति चूर्णौ ॥ ३ या ता० ॥ ४ " एसा गाधा जत्रा पंचकप्पे तथा विभासितव्वा" इवि चूर्णिः ॥ ५ वोच्छिति इति सत्थे ता० ॥ ६ लोकसि° कां० डे० विना ॥ Jain Education International For Private & Personal Use Only अनुगम द्वारम् 25 www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy