________________
भाप्यगाथाः २६२-६७] पीठिका । विनयस्य यावन्तो भेदास्तेषां मध्ये या येन विनयेनानुवृत्तिः-सर्वेप्वर्थेप्वप्रतिकूलता तया तुष्यति तस्य तमवश्यं कुर्यात् । किं कारणं येन येन कृतेन तुप्यति तत् कर्त्तव्यम् ? अत आह-'तस्य' आचार्यस्याराधनाया एषोऽव्याहतः 'मार्गः' पन्थाः ॥ २६३ ॥ किञ्च
आगारिंगियकुसलं, जइ सेयं वायसं वए पुजा ।
तह वि य सिं न विकूडे, विरहम्मि य कारणं पुच्छे ॥ २६४ ॥ । आकारः-दिगवलोकनादिस्तेन इङ्गितं-परिज्ञानं यदन्तर्गतस्य भावस्य तत्र कुशल आकारेङ्गितकुशलः, अथवाऽऽकारः-दिगवलोकनादिरिङ्गितं-सूक्ष्मचेष्टाविशेषस्ताभ्यामन्तर्गताभिप्रायलक्षणे कुशल आकारेङ्गितकुशलस्तं शिष्यं 'पूज्याः' आचार्या [वदेयुः । किं ] वदेयुः ? इत्याह-'श्वेतं वायसं' यथा परतः श्वेतो वायसस्तिष्ठतीति, तथापि "सिं" तेषां पूज्यानां तद् वचनं स शिप्यः 'न विकुट्टयेत्' न प्रतिषेधयेत् , यथा-न भवत्ययं श्वेतः, वायसः कृष्ण इति; 10 केवलं 'विरहे' जनापगमे एकान्ते कारणं पृच्छेत्-कथं तदा गुरुपादैरुपदिष्टं 'श्वेतो वायसः' ? इति । तत्राऽऽचार्येण वक्तव्यम्-सत्यम् , न भवति श्वेतो वायसः किन्तु मया त्वत्परिज्ञानार्थमुक्तम् , यथा-किमेष मद्वचनं कोपयति न वा ? इति ॥ २६४ ॥ उक्तो भावोपक्रमः, तदभि. धानाच्च लौकिकः। सम्प्रति शास्त्रीयो वक्तव्यः, स च भावेऽन्तर्भवतीति भावोपक्रमतया तमेवाहभावे उवक्कम वा, छव्यिहमणुपुचिमाइ वण्णेउं ।
15 षड्विधः
शास्त्रीय जत्थ समोयरइ इमं, अज्झयणं तत्थ ओयारे ।। २६५ ॥ वाशब्दः प्रकारान्तरसूचने । अथवा भावोपक्रमं षड्विधं' आनुपूर्वी-नाम-प्रमाण-वक्तव्यता-ऽर्थाधिकार-समवतारलक्षणं वर्णयित्वा यत्रेदमध्ययनं समवतरति तत्रावतारयितव्यम् । तद्यथा-आनुपूर्वी त्रिधा, पूर्वानुपूर्वी पश्चादानुपूर्वी अनानुपूर्वी च ॥ २६५ ॥ तत्र
दुहं अणाणुपुब्बी, न हवइ पुव्वाणुपुविओ पढमं ।
पच्छाणुपुति बिइयं, जइ उ दसा तेण बारसमं ॥ २६६ ॥ द्वे एवाध्ययने कल्पो व्यवहारश्च, न च द्वयोरनानुपूर्वी भवति, ततोऽत्र पूर्वानुपूर्वी वा प्रतिपत्तव्या पश्चानुपूर्वी वा । तत्र पूर्वानुपूर्व्या प्रथमं पश्चादानुपूर्व्या द्वितीयम् । केचिदाचार्याः प्राहु:-कल्प-व्यवहार-दशा एकश्रुतस्कन्धः, तन्मतेन यदि दशा अपि गण्यन्ते तदा पूर्वानुपूर्व्या प्रथमं पश्चानुपूर्व्या द्वादशमम् अनानुपूर्व्या एकादिकाया एकोत्तरिकाया 25 द्वादशगच्छगतायाः श्रेणेरन्योऽन्याभ्यासे यावन्तो भङ्गकाः प्रथमान्तिमवर्जास्तावन्तो भेदा द्रष्टव्याः ॥ २६६॥
सव्वज्झयणा नामे, ओसन्नं मीसए अवतरंति ।
जीवगुण नाण आगम, उत्तरऽणंगे य काले य ॥ २६७ ॥ 'नाम्नि' षड्डिधनाम्नि समवतरति । षड्डिधे च नाम्नि भावाः प्ररूप्यन्ते । तत्र 'मिश्रके' 30 क्षायोपशमिके भावे समवतरन्ति यतः सर्वाण्यप्यध्ययनानि उत्सन्नम् अत इदमपि क्षायो१°श्चानु भा०॥ २ उद्धप्रायेणतं अत ('उत्सन्नं' प्रायेण, अत) डे० ॥
उपक्रमः
.
बृ०११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org