SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ .5 क्रमः भाष्यगाथाः २५४-६१] पीठिका। चतुर्णा द्वाराणामवान्तरभेदाः । तत्रोपक्रमो द्विभेदः, तद्यथा-लौकिकः शास्त्रीयश्च । लौकिकः उपक्रमषड्विधः-नामोपक्रमः स्थापनोपक्रमो द्रव्योपक्रमः क्षेत्रोपक्रमः कालोपक्रमो भावोपक्रमश्च ॥२५॥ द्वारम् तत्र नाम-स्थापने प्रतीते । द्रव्योपक्रममाहसच्चित्ताई तिविहो, उवक्कमो दधि सो भवे दुविहो। लौकिको द्रव्योपपरिकम्मणम्मि एको, विइओ संवट्टाए उ ॥ २५८ ॥ नोआगमतो व्यतिरिक्तो द्रव्योपक्रमस्त्रि विधः-'सचित्तादिः' सचित्तोऽचित्तो मिश्रश्च । एकैको द्विविधः-परिकर्मणि संवर्तनायां च ॥ २५८ ॥ एतदेव व्याख्यानयति जेण विसिस्सइ रूवं, भासा व कलासु वा वि कोसल्लं । परिकम्मणा उ एसा, संवद्रण वत्थुनासो उ ॥ २५९ ॥ येन रूपं 'विशिष्यते' विशिष्टतरं क्रियते, यथा सुवर्णे कटकरूपतापादनं कृष्णवर्णे वा 10 गौरवर्णताजननम् ; तथा येन भाषा विशेष्यते स्पष्टवर्णोच्चारणादिरूपा क्रियते, यथा शुकसारिकादीनाम् ; यच्च वा 'कलासु' द्वासप्ततिसङ्ख्यासु कौशलमुपजन्यते एषा परिकर्मणा । संवरीना वस्तुनाशः, यथा-सुवर्णे कटकत्वं भज्यते पुरुषो वा मार्यते । तत्र सचित्ते परिकर्मणा यथा-नटस्य नेपथ्यं क्रियते, शुको वा पाठ्यते, पुरुषो वा द्वासप्ततिकला अवगाह्यते, संवर्तना यथा-पुरुषो मार्यते । अचित्ते परिकर्मणा यथा-सुवर्णे कटकं क्रियते, संवर्तना-कटकं भज्यते । 15 मिश्रे परिकर्मणा यथा-साभरणो नटो चारुवेवं कार्यते, पुरुषो वा साभरणो द्वासप्ततिकल्प ग्राह्यते, संवर्तना यथा-सायुधः पुरुषो मार्यते ॥ २५९ ॥ गतो द्रव्योपक्रमः । सम्प्रति क्षेत्रोपक्रममाह. नावाएँ उवक्कमणं, हल-कुलियाईहिँ वा वि खित्तस्स । क्षेत्रोपसम्मज-भूमिकम्मे, पंथ-तलागाइएसुं तु ॥ २६० ॥ यन्नावा आदिशब्दादुडुपादिभिश्च नदी तरति, अथवा हल-कुलिकादिभिर्यत् क्षेत्रस्य' इक्षुक्षेत्रादेरुपक्रमणम् , यदि वा यत् क्रियते गृहादीनां सम्मार्जनं भूमिकर्म वा देवकुलादीनाम् , यच्च वा पथः-मार्गस्य शोधनम् तडागं वा खन्यते, आदिग्रहणेनावटादिषु यत् परिकर्म खननादिलक्षणम् । एष समस्तोऽपि क्षेत्रोपक्रमः ॥ २६० ॥ कालोपक्रममाहछायाएँ नालियोइ व, कालस्स उवक्कमो विउपसत्थो । 25 लौकिकः कालोप'रिक्खाईचारेसु व, साव-वियोहेसु व दुमाणं ॥२६१॥ 'छायया' शङ्कुच्छायया 'नालिकया' घटिकया यः कालो ज्ञायते, यथा एतावान् कालो गत इति । किंविशिष्टः ? इत्याह-"विउपसत्थो" विदः-विद्वांसस्तैः प्रशस्तः-प्रशंसितः, यथा सुष्ठु ज्ञात इति, एष कालोपक्रमः । यदि वा रि(ऋ)क्षं-नक्षत्रम् आदिशब्दाबहपरिग्रहः तेषां चारेषु यत्परिज्ञानम् , यथा-नक्षत्रमिदमेतावन्तं कालमशुभम् , ग्रहो वाऽमुकराशावेतावन्तं कालं 30 स्थायी इत्यादि । यच्च वा 'द्रुमाणां' शमी-चिञ्चिनिकाप्रभृतीनां खापे विबोधे च दृष्टे ज्ञायते, यथा-गतोऽस्तमादित्य उदितो वेति । एष कालोपक्रमः ॥ २६१ ॥ १°णाईओ ता० विना ॥ २°याय व ता० ॥ लौकिकः क्रमः 20 क्रमः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy