________________
भाष्यगाथाः २४५-५३ ]
पीठिका |
बुध्यन्ते - एष स्वयमुत्सर्गस्थितात्मा, अथ च कल्पे व्यवहारे च यतनया पञ्चकादिपरिहाणिरूपया प्रतिसेवना अनुज्ञाताः प्रदर्शयति, ततः प्रतिसेवना यतनयाऽनुज्ञाता अपि प्रदर्शयन् स्वयं तासु न वर्तते, किन्तु केवलमुत्सर्गमाचरति, तदेवं ज्ञायते नूनम् - निश्चयेनैता यतनानुज्ञाता अपि प्रतिसेवनाः 'अकरणीयाः' न समाचरितव्याः ॥ २४८ ॥ किञ्च
जो उत्तमेहिं पहओ, मग्गो सो दुग्गमो न सेसाणं । आयरियम्मि जयंते, तदणुचरा केण सीईजा ॥ २४९ ॥
यः 'उत्तमैः' गुरुभिः 'प्रहृतः' क्षुण्णः ' मार्गः' पन्थाः स शेषाणां दुर्गमो न भवति, किन्तु सुगमः । तत्र आचार्ये 'यतमाने' यथोक्त सूत्रनीत्या प्रयत्नवति 'तदनुचराः' तदाश्रिताः शिष्याः केन हेतुना सीदेयुः ? नैव सीदेयुरिति भावः । तत एतेन कारणेन कल्प-व्यवहारयोरनुयोगे विशेषत एतादृशेन प्रकृतम् ॥ २४९ ॥
अणुओम्मिय पुच्छा, अंगाई कप्प छक्कनिक्खेवो ।
७७
5
सुखंधे निक्खेवो, ईकेको चउत्रिहो होइ ॥ २५० ॥
अनुयोगेऽङ्गादेः पृच्छा वक्तव्या, तदनन्तरं कल्पस्य षट्को निक्षेपः, ततः श्रुते स्कन्धे च एकैकस्मिन् निक्षेपश्चतुर्विधो भवति वक्तव्यः । एष द्वारगाथा समासार्थः ॥ २५० ॥ साम्प्रतमेनामेव विवरीषुः प्रथमतोऽनुयोगेऽङ्गादेः पृच्छामाह
10
Jain Education International
जर कप्पादणुयोगो, किं सो अंगं उयाहु सुयखंधो । अज्झणं उद्देसो, पडिवक्खंगादिणो बहवो ॥। २५१ ॥
यदि कल्पादेः आदिशब्दाद् व्यवहारस्य ग्रहणम् अनुयोगः ततः किं सोऽङ्गम् ? उताहो श्रुतस्कन्धः ? अध्ययनम् ? उद्देशो वा ? । अमीषां चाङ्गानां प्रतिपक्षा बहवोऽङ्गादयो द्रष्टव्याः । इयमत्र भावना - यदि नामैतादृशेनाचार्येणानुयोगः कल्पस्य व्यवहारस्य च कर्त्तव्यः ततः स 20 कल्पो व्यवहारो वा किमङ्गम् अङ्गानि ? श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनम् अध्ययनानि ! उद्देश उद्देशाः ? ॥ २५१ ॥ अत्र सूरिराह
For Private & Personal Use Only
15
सुखंधी अज्झयणा, उद्देसा चैव हुंति निक्खिप्पा |
सेसाणं पडिसेहो, पंचण्ह वि अंगमाईणं ।। २५२ ॥
श्रुतस्कन्धोऽध्ययनानि उद्देशा एते त्रयः पक्षा भवन्ति 'निक्षेप्याः' स्थाप्या आदरणीया 25 इत्यर्थः । शेषाणां पञ्चानामप्यङ्गादीनां प्रतिषेधः । तद्यथा - कल्पो व्यवहारो वा नाङ्गं नानानि श्रुतस्कन्धो नो श्रुतस्कन्धाः अध्ययनं नाध्ययनानि नो उद्देशः उद्देशाः ॥ २५२ ॥
तम्हा उ निक्खिविस्सं, कप्प व्यवहारमो सुयक्खंधं ।
अज्झणं उद्दे, निक्खिवियव्वं तु जं जत्थ ॥ २५३ ॥
यस्मादेवं तस्मात् कल्पं निक्षेप्स्यामि व्यवहारं निक्षेप्स्यामि श्रुतं निक्षेप्स्यामि स्कन्धं निक्षे- 30 स्यामि अध्ययनं निक्षेप्स्यामि उद्देशं निक्षेप्स्यामि । यच्च यत्र निक्षेप्तव्यं नामादि चतुष्प्रकारं षट्पकारं वा [तत्] तत्र वक्ष्यामि । तत्र कल्पस्य षड्विधो नामादिको निक्षेपः ।
१ सीएजा ता० ॥ २ एकेक च ता० ॥
www.jainelibrary.org