SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७६ सनिर्युक्ति-भाष्य-वृत्ति के बृहत्कल्पसूत्रे [ अनुयोगाधिकारः कारको घटस्य कर्त्ता कुम्भकारः, ज्ञापको यथा - तमसि घटादीनामभिव्यञ्जकः प्रदीपः, उपनयः–उपसंहारः, नयाः - नैगमादयः, एतेषु निपुण आहरण हेतूपनय - नयनिपुणः; सहि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधतः क्वचिद् दृष्टान्तोपन्यासं क्वचिद् हेतूपन्यासं करोति, उपसंहारनिपुणतया सम्यगधिकृतमर्थमुपसंहरति, नयनिपुणतया नयवक्तव्यतावसरे सम्यक्प्रपञ्चं वैवि5 क्त्येन नयानभिधत्ते । ‘ग्राहणाकुशल: ' प्रतिपादनशक्त्युपेतः ॥ २४३ ॥ खसमयं परसमयं वेत्तीति खसमय-परसमयवित्, स च परेणाक्षिप्तः सुखेन स्वपक्षं परपक्षं च निर्वहति । 'गम्भीर ः ' अतुच्छखभावः । 'दीप्तिमान्' परवादिनामनुद्धर्पणीयः । 'शिवः' अकोपनः, यदि वा यत्र तत्र वा विहरन् कल्याणकरः । 'सोमः' शान्तदृष्टिः । गुणाः - मूलगुणा उत्तरगुणाश्च तेषां शतानि तैः कलितो गुणशतकलितः । 'युक्तः ' समीचीनः प्रवचनस्य - द्वादशाङ्गस्य सारम् -अर्थं कथ10 यितुम् ॥ २४४ ॥ कस्माद्गुणशतकलित इष्यते ? इति चेद् अत आह— गुणस्स वणं, घयपरिसितु व्व पावओ भाइ । गुणहीणस्स ने सोहर, नेहविहूणो जह पईवो ॥ २४५ ॥ यो मूलगुणादिषु गुणेषु सुस्थितस्तस्य वचनं घृतपरिसिक्तपावक इव 'भाति' दीप्यते । गुणहीनस्य तु न शोभते वचनम्, यथा स्नेहविहीनः प्रदीपः । उक्तञ्च – आयारे वहतो, आयारपरूवणाअसंकंतो । आयारपरिब्भट्टो, सुद्धचरणदेसणे भइओ ॥ गतं न वेति द्वारम् । अधुना कस्येति द्वारमाह - कस्येति द्वारम् 15 20 25 जइ पवयणस्स सारो, अत्थो सो तेण कस्स कायन्वो । एवंगुणन्निएणं, सव्त्रसुयस्साsss देसी ॥ २४६ ॥ यदि प्रवचनस्य सारो अर्थस्तर्हि स तेन एवंगुणान्वितेन कस्य कर्त्तव्यः ? किं सर्वश्रुतस्य ? उत 'देशस्य' श्रुतस्कन्धादेः ? इति ॥ २४६ ॥ अत्र सूरिराह को कलाणं निच्छ, सव्वस्स वि एरिसेण वत्तव्वो । कप्प - व्यवहाराण उ, पगयं सिस्साण थिजत्थं ॥ २४७ ॥ को नाम जगति कल्याणं नेच्छति : ततः सर्वस्यापि श्रुतस्यानुयोग ईदृशेन वक्तव्यः । केवलं कल्पो व्यवहारश्चापवाद बहुलस्ते नैतयोरनुयोगे विशेषत एतादृशेन 'प्रकृतम्' अधिकृतमधिकारः, एवंगुणयुक्तेनैव कल्प - व्यवहारयोरनुयोगः कर्त्तव्य इत्यर्थः । कस्मादेवमुच्यते ? इति चेत्, उच्यते - शिष्याणां स्थिरीकरणार्थम् ॥ २४७ ॥ तदेव स्थिरीकरणं भावयतिसुस्सग्गठियप्पा, जयणान्नातो दरिसतो वि । तासु न वह नूणं, निच्छयओ ता अकरणिजा ॥ २४८ ॥ यदा नाम यथोक्तगुणशतकलितः कल्प-व्यवहारयोरनुयोगं करोति तदा शिष्या एवमव 30 ॥ २४५ ॥ १ न भायति ने ता० ॥ २ स्नेहेन वि' डे० ॥ ३ इस वक्तव्वो ता० ॥ ४ रस कां० ०ता० ॥ ५ लस्तेन तयो भा० मो० विना ॥ ६°वम् ? उच्यते - शिष्या० भा० विना ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy