________________
भाष्यगाथाः २४०-४४]
पीठिका ।
केन वेति द्वारम् देस-कुल-जाइ-रूवी, संघइणी धिइजुओ अणासंसी।
अनुयोग
दातुर्गुणाः अदिकंथणो अमाई, थिरपरिवाडी गहियवको ॥ २४१ ॥ जियपरिसो जियनिदो, मज्झत्थो देस-काल-भावन्नू । आसन्नलद्धपइभो, नाणाविहदेसभासन्नू ॥२४२॥ पंचविहे आयारे, जुत्तो सुत्तऽत्थतदुभयविहन्नू । आहरण-हे उ-उवणय-नयनिउणो गाहणाकुसलो ॥ २४३ ॥ ससमय-परसमयविऊ, गंभीरो दित्तिमं सिवो सोमो ।
गुणसयकलिओ जुत्तो, पवयणसारं परिकहेउं ॥ २४४ ॥ युतशब्दः प्रत्येकमभिसम्बध्यते-देशयुतः कुलयुत इत्यादि । तत्र यो मध्यदेशे जातो यो 10 वाऽर्द्धषड्विंशतिषु जनपदेषु स देशयुतः, स ह्यार्यदेशभणितिं जानाति, ततः सुखेन तस्य समीपे शिष्या अघीयत इति तदुपादानम् । कुलं पैतृकम् , तथा च लोके व्यवहारः-इक्ष्वाकुकुलजोऽयम् नागकुलजोऽयमित्यादिः, तेन युतः प्रतिपन्नार्थनिर्वाहको भवति । जातिर्मातृकी, तया युतो विनयादिगुणवान् भवति । रूपयुतो लोकानां गुणविषयबहुमानभाग् जायते, “यत्राकृतिस्तत्र गुणा वसन्ति" इति प्रवादात् । संहननयुतो व्याख्यायां न श्राम्यति । धृति-1B युतो नातिगहनेष्वर्थेषु भ्रममुपयाति । 'अनाशंसी' श्रोतृभ्यो वस्त्राद्यनाकाङ्की । 'अविकत्थनः' नातिबहुभाषी । ['अमायी' न शाठ्येन शिष्यान् वाहयति ।] स्थिरा-अतिशयेन निरन्तराभ्यासतः स्थैर्यमापन्ना अनुयोगपरिपाट्यो यस्य स स्थिरपरिपाटिः, तस्य हि सूत्रमर्थो वा न मनागपि गलति । 'गृहीतवाक्यः' उपादेयवचनः, तस्य ह्यल्पमपि वचनं महार्थमिव प्रतिभाति ॥२४१॥ 'जितपरिषत्' न महत्यामपि पर्षदि क्षोभमुपयाति । 'जितनिद्रः' रात्रौ सूत्र-20 मर्थं वा परिभावयन् न निद्रया बाध्यते । 'मध्यस्थः' सर्वेषु शिष्येषु समचित्तः । देशं कालं भावं जानातीति देश-काल-भावज्ञः, स हि देशं कालं भावं च लोकानां ज्ञात्वा सुखेन विहरति, शिष्याणां चाभिप्रायान् ज्ञात्वा तान् सुखेनानुवर्तयति । 'आसन्नलब्धप्रतिभः' परवादिना समाक्षिप्तः शीघ्रमुत्तरदायी । नानाविधानां देशानां भाषा जानातीति नानाविधदेशभाषाज्ञः, स हि नानादेशीयान् शिष्यान् सुखेन शास्त्राणि ग्राहयति ॥ २४२ ॥ पञ्चविध आचारः- 23 ज्ञानाचारादिरूपस्तस्मिन् 'युक्तः' उद्युक्तः, खयमाचारेष्वस्थितस्यान्यानाचारेषु प्रवर्तयितुमशक्यत्वात् । सूत्रा-ऽर्थग्रहणेन चतुर्भङ्गी सूचिता-एकस्य सूत्रं नार्थः, द्वितीयस्याथों न सूत्रम् , तृतीयस्य सूत्रमप्यर्थोऽपि, चतुर्थस्य न सूत्रं नाप्यर्थः; तत्र तृतीयभङ्गग्रहणार्थं तदुभयग्रहणम् , सूत्रा-ऽर्थ-तदुभयविधीन् जानातीति सूत्रार्थतदुभयविधिज्ञः । आहरणं-दृष्टान्तः, हेतुश्चतुर्विधो यापकादिः या दशवैकालिकनियुक्तौ, यदि वा द्विविधो हेतुः कारको ज्ञापकश्च, तंत्र 30
१ अहवा वि इमो हेऊ, विन्नेओ तत्थिमो चउविअप्पो । जावग थावग वंसग, लूसग हेऊ चउत्थो उ ॥ अध्य० १ गाथा ८६॥ २ "तत्र कारको यथा-मृत्पिण्ड-चक्र-सूत्रोदक-कुलालसामग्रीलक्षणो हेतुर्घटादीनां निर्वर्तकत्वात् कारकः । ज्ञापको यथा-तैल-स्थाल-वर्ति-ज्योतिःसामग्रीनिष्पनः प्रदीपलक्षणो हेतुः वस्त्र-शयना. ऽसनानामनेकेषां तमा भव्यजकत्वाद ज्ञापकः ।" इति चूर्णिकृतः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org