________________
७२
16
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः चीवराणि शिक्ष्यते, ततः सुशिक्षितः शोभनानपि पटान् वयति । चित्रकारोऽपि प्रथममण्डकं चित्रयितुं शिक्ष्यते, ततः शेषानवयवान् , पश्चात् सुशिक्षितः सर्व चित्रकर्म सम्यक् करोति । धमकोऽपि पूर्वं शृङ्गादीनि धमयति (धमति), पश्चाच्छलम् ॥ २३१ ॥ अत्रैवोपनयन्नाह
जत्थ मई ओगाहइ, जोग्गं जं जस्स तस्स तं कहए ।
परिणामा-ऽऽगमस रिसं, संवेगकरं सनिव्वेयं ॥ २३२ ॥ यथैते हस्त्यादयः क्रमेण निर्माप्यन्ते एवं शिष्यस्यापि यत्र मतिरवगाहते यस्य च यद् योग्यं शास्त्रं तस्य तत् कथयति । कथम्भूतम् ? इत्याह–'परिणामा-ऽऽगमसदृशं' यस्य यादृशः परिणामो यस्य च यावानागमस्तत्सदृशम् , यथा-ईदृशपरिणामस्येदम् एतावदागमस्य पुनरिदमिति । पुनः किंविशिष्टं कथयितव्यम् ?, अत आह-'संवेगकरं' सिद्धिदेवलोकः सुकुलो10त्पत्तिरित्यादेरभिलाषः संवेगस्तत्करणशीलं संवेगकरम् , तथा नरकः तिर्यग्योनिः कुमानुषत्वमित्यादेविरक्तता निर्वेदस्तकरणशीलं निर्वेदकरम् ॥ २३२ ॥
तदेवं योग्येऽपि क्रमेण दाने राग-द्वेषाभाव उक्तः । 'सम्प्रति शिष्येष्वाचार्येण परिणामकत्वं परीक्ष्यानुयोगः कर्त्तव्यः, शिष्यैरप्याचार्य परीक्ष्य तस्य सकाशे श्रोतव्यम्' इति शिष्या-ऽऽचार्यपरस्परविधिमतिदेशत आह
गिण्हंत-गाहगाणं, आइसुएसु उ विही समक्खाओ।
सो चेव य होइ इहं, उज्जोगो वनिओ नवरं ॥ २३३ ॥ गृढतां-शिष्याणां ग्राहकस्य-आचार्यस्य 'आदिसूत्रेषु' सामायिकादिषु यो विधिः समाख्यातः "गोणी चंदण" (आव० नियु० गाथा १३६) इत्यादिलक्षणः स एवेह निर. वशेषो वक्तव्यः । यस्तु शिष्याणामनुयोगकथने 'उद्योगः' उद्यमो यथा तिसृभिः परिपाटीभि20 रथवा सप्तभिः कर्त्तव्यः, स नवरं सप्रपञ्चमुपवर्णितः ॥ २३३ ॥
गतं विधिद्वारम् । अधुना प्रवृत्तिद्वारं वक्तव्यम् । प्रवृत्तिः प्रवाहः प्रसूतिरित्येकार्थाः । कथमनुयोगः प्रवर्तते ! इति । सा च प्रवृत्तिर्द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतः प्रवृत्तिमाहप्रवृत्तिद्वारम्
अणिउत्तो अणिउत्ता, अणिउत्तो चेव होइ उ निउत्ता। नि(ने)उत्तो अणिउत्ता, उ निउत्तो चेव उ निउत्ता ।। २३४ ॥ निउत्ता अनिउत्ताणं, पवत्तई अहव ते वि उ निउत्ता।
दवम्मि होइ गोणी, भावम्मि जिणादयो हुंति ॥ २३५ ॥ द्रव्यतः प्रसवे गौदृष्टान्तो भवति, भावे जिनादयः । तत्र गवि दोहकेन सह चत्वारो भङ्गाः, तद्यथा-दोहकोऽनियुक्तो गौरप्यनियुक्ता १ दोहकोऽनियुक्तो गौर्नियुक्ता २ दोहको 30 नियुक्तो गौरनियुक्ता ३ दोहको नियुक्तो गौरपि नियुक्ता ४ । एवमाचार्य-शिष्येष्वपि भङ्गचतुष्टयं योजनीयम् , तच्चाग्रे योक्ष्यते । तत्र तृतीये भङ्गे नियुक्त आचार्यों बलादप्यनियुक्तानां
१ "तिद्धी य देवलोगो, सुकुलुप्पती य होति संवेगो । णरओ तिरिक्खजोणी, कुमाणुसत्तं च णिवेतो ॥१॥” इति चूर्णौ ॥ २ रणीयशी भा० ॥ ३°व ते वि उ ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org