________________
७१
वृक्ष
'करील
दृष्टान्ताः 10
भाष्यगाथाः २२१-३१]
पीठिका। बालस्य देहे' अभिवर्द्धमाने तदनुसारेण दातव्यस्य 'पीहकस्य' आहारस्यापि(स्याभि)वृद्धिर्भवति, देहवृद्ध्यनुसारतः पीथकमपि क्रमशो वर्द्धमानं दीयते इति भावः । यदि पुनरतिबहु दीयते तदा स विनश्यति । ग्लानदृष्टान्तमाह - 'एवमेव' बालगतेन प्रकारेणाधुनोत्थितेऽपि ग्लाने वक्तव्यम्-यथा ग्लानोऽप्यधुनोस्थितः क्रमेणाभिवर्द्धमानमाहारं गृह्णाति, एकवारमतिप्रभूतग्रहणे विनाशप्रसङ्गात् । एवं शिप्योऽपि क्रमेण योग्यतानुरूपं शास्त्रमादत्ते, प्रथमत एवा-5 तिनिपुणार्थशास्त्रग्रहणे बुद्धिमङ्गप्रसक्तेः ॥ २२७ ॥ सिंहादिदृष्टान्तानाहखीर-मिउपोग्गलेहि, सीहो पुट्ठो उ खाइ अट्ठी वि ।
सिंहरुक्खो विवन्नओ खलु, वंसकरिल्लो य नहछि जो ।। २२८ ॥ ते चेव विवढेता, हुंति अछेजा कुहाडमाईहिं ।
तह कोमला वि बुद्धी, भजइ गहणेसु अत्थेसु ॥ २२९ ॥ सिंहः प्रथमतः क्षीर-मृदुपुद्गलैः स्वमात्रा पोष्यते । ततः पुष्टः सन् अस्थीन्यपि स खादति । तथा वृक्षो द्विपर्णो वंशकरीलम् एतौ द्वावपि प्रथमतो नखच्छेद्यौ, ततः पश्चादभिवर्द्धमानौ यतस्ततः कुठारादिभिरप्यच्छेद्यौ भवतः । एवं शिप्यस्यापि प्रथमतः कोमला बुद्धिर्भवति, ततः सा गहनेष्वर्थेषु 'भज्यते' भङ्गमुपयाति । क्रमेण तु शास्त्रान्तरदर्शनतोऽभिवर्द्धमाना कठोरा कठोरतरोपजायते इति न कचिदपि भङ्गमुपयाति ॥ २२८ ॥ २२९ ॥ 15 एतदेवोपदिशन्नाह
निउणे निउणं अत्थं, थूलत्थं थूलबुद्धिणो कहए।
बुद्धीविवद्धणकरं, होहिइ कालेण सो निउणो ॥ २३०॥ निपुणे निपुणमर्थ कथयेत् , स्थूले स्थूलमर्थ कथयेत् । कथम्भूतम् ? इत्याह-बुद्धिविवर्द्धनकरम् । एवं सति स कालेन निपुणो भवति, अन्यथा बुद्धिभङ्गप्रसङ्गतो न स्यात् ३० ॥ २३० ॥ साम्प्रतमादिशब्दसूचितान् हस्त्यादीन् दृष्टान्तानाहसिद्धत्थए वि गिण्हइ, हत्थी थूलगहणे सुनिम्माओ।
हस्त्यादयो सरवेह-छिज-पवए, घड-पड-चित्ते तहा धमए ॥ २३१ ॥ हस्ती स्थूलमहणे सुनिर्मातः सन् पश्चात् सिद्धार्थकानपि गृह्णाति । तथाहि-नवको हस्ती शिष्यमाणः प्रथमं काष्ठानि ग्राह्यते, तदनन्तरं क्षुल्लकान् पाषाणान् , ततो गोलिकाः, ततो25 बदराणि, तदनन्तरं सिद्धार्थकानपि । यदि पुनः प्रथमत एव सिद्धार्थकान् ग्राह्यते ततो न शक्नोति ग्रहीतुमिति । एवं खरवेध-पत्रच्छेद्य-प्लवक-घटकारक-पटकारक चित्रकारक-धमकाश्च दृष्टान्ता भावनीयाः। ते चैवम्-प्रथमं धानुष्कः स्थूलद्रव्यं व्यर्द्ध शिक्षति, पश्चात्स वालम् , पश्चादतिसुनिर्मातः खरेणापि विध्यति । तथा पत्रच्छेद्यकार्यपि प्रथममकिञ्चित्करैः पत्रैः शिक्ष्यते, ततो यदा निर्मातो भवति तदा ईप्सितं पत्रच्छेद्यं कार्यते । तथा प्लवकोऽपि प्रथमं वंशे लगयित्वा 30 प्लान्यते, ततः पश्चादभ्यस्यन् आकाशेऽपि तानि तानि करणानि करोति । घटकारोऽपि प्रथमतः शरावादीनि कार्यते, पश्चात् शिक्षितो घटानपि करोति । पटकारोऽपि प्रथमतः स्थूलानि १°हे परिव भा० ॥ २ अट्ठीणि ता० ॥ ३ द्विवर्णो भा० विना ।।
दृष्टान्ताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org