SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-भाष्य-वृत्तिके वृहत्कल्पसूत्रे [अनुयोगाधिकारः शिष्येणा- शिष्यः 'नो(चो)दयति' प्रश्नयति-'समर्थे' ग्रहण-धारणासमर्थे तथा परिणामके, उपलक्षणनुयोग मेतत् , ग्रहण-धारणा[]समर्थेऽतिपरिणामके ऽपरिणामके] च या प्ररूपणा तया युष्माकं रागदातरि गुरौ राग- द्वेषौ प्रसजतः । तथाहि-तिसृभिः परिपाटीभिरेकान् ग्राहयतो रागः, अपरान् सप्तभिः परिपाद्वेषत्वा- टीभिर्गाहयतो द्वेषः; तथा परिणामकान् ग्राहयतो रागः, इतरानतिपरिणामका-ऽपरिणामकान् पादनम् 5 परिहरतश्च द्वेषः । एतेषां' ग्रहण-धारणासमर्था-ऽसमर्थानां परिणामकादीनां च 'यथाऽऽनुपू॰' क्रमेण नानात्वं वक्ष्ये ॥ २११ ॥ तत्र प्रतिज्ञातमेव निर्वाहयन् प्रथमतो ग्रहण-धारणासमर्था-ऽसमर्थान् प्रति राग-द्वेषावाह मच्छरया अविमुत्ती, पूयासकार गच्छइ य खिन्नो । दोसो गहणसमत्थे, इयरे रागो उ वुच्छेयो ॥ २१२ ॥ 10 ग्रहण-धारणासमर्थ शिष्यं तिसृभिः परिपाटीभिहियत एतावन्ति कारणानि स्युः-एष बहुशिक्षितो मम सपनो भविष्यति, ततो मत्सरतया तिसृभिः परिपाटीभिस्तस्य प्र(मा)हणम् , अन्यथा एकया परिपाट्या तं ग्राहयेत् । 'अविमुक्तिः' इति एष सूत्रा-ऽर्थेषु समाप्तेषु मां मोक्ष्यते, इतरथा तु शिष्यपरिवारत्वेन वर्तत इत्यविमुक्तिकारणम् । अथवा गृहीतसूत्रा-ऽर्थस्यास्य पूजासत्कारो भविष्यति । 'खिन्नो वा' परिश्रान्तोऽन्यं गणं गमिष्यति । “वोच्छेय(यो)"ति 15 मद्वसतौ चानुयोगस्य व्यवच्छेदो भविष्यति, अन्यस्य तथाविधशिष्यस्याभावात् । एवं कारणानि सम्भाव्य ग्रहण-धारणासमर्थे तिसृभिः परिपाटीभिरनुयोगं वदतो द्वेषः । 'इतरस्मिन्' जडे रागः, यथातदवबोधमनुयोगस्य प्रवर्तनात् ॥ २१२ ॥ अत्राऽऽचार्यः प्राहभाचार्यस्य निरवयवो न हु सेको, सयं पगासो उ संपयंसेउं । प्रतिवचः कुंभजले वि हु तुरिउज्झियम्मि न हुँ तिम्मए लिट्ठ ॥२१३ ॥ 20 'न हु' नैव सूत्रस्य 'प्रकाशः' अर्थः 'सकृद्' एकया परिपाट्या निरवयवः' समस्तः सम्प्रदर्शयितुं शक्यः, तस्य ग्रहण-धारणासमर्थस्यापि तथाऽवधारयितुमशक्यत्वात् । एतदेव प्रतिवस्तूपमया द्रढयति-न हि कुम्भजलेऽपि त्वरितमुज्झिते लेष्टुः सर्वात्मना तिम्यते, एवमेषोऽपि ग्रहण-धारणासमर्थोऽपि नैकया परिपाट्याऽवधारयितुमीश इति तिसृभिः परिपाटीभिर नुयोगकथनमित्यदोषः ॥ २१३ ॥ 25 साम्प्रतमतिपरिणामका-ऽपरिणामकान् परिहरतो द्वेषाभावमाह सुत्त-ऽत्थे कहयंतो, पारोक्खी सिस्सभावमुवलब्भ । __ अणुकंपाऍ अपत्ते, निजूहइ मा विणस्सिज्जा ॥ २१४ ॥ 'परोक्षी' परोक्षज्ञानोपेतः शिप्येभ्यः सूत्रा-ऽर्थो कथयन् विनया-ऽविनयकरणादिना तेषां शिष्याणां भावम्-अभिप्रायमुपलभ्य 'अपात्राणि' अपात्रभूतान् शिष्यान् अनुकम्पया 30 'नि!हयति' अपवदति-न तेभ्यः सूत्रा-ऽौँ कथयति, श्रुताशातनादिना मा विनश्येयुरिति कृत्वा ॥ २१४ ॥ अत्रैवार्थे दृष्टान्तमा(न्ताना)ह १ गच्छिति य ता० ॥ २ दोसा ग° ता० ॥ ३ य वोच्छेदो ता० ॥ ४ मम प्रसन्नो भवि भा० विना ॥ ५ सका भा० ता० ॥६ वि ता० ॥ ७त्तऽत्थं क° ता० ॥ ८°पाय अं ता० ॥ ९ "णिजहति ति न तेभ्य अपवाग्रं कथयतीत्यर्थः" इति। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy