SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ दृष्टान्तः जर . .... सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः ज्ञाताध्ययनेषु यानि आहरणानि दृष्टान्ताः ते हि कदाचित्त एव भवेयुर्ये ऋषभादिभिरुपन्यस्ताः, केचिदन्यथा वा ये प्रत्युत्पन्ना इति । तथा यानि ऋषिभाषितानि प्रकीर्णकश्रु. तानि च एतानि 'अनियतानि' कदाचिद् भवन्ति कदाचिन्न भवन्ति; यानि च भवन्ति तान्यपि कदाचित् तथार्थयुक्तानि कदाचिद् अन्यथार्थोपेतानि । शेषं पुनः 'उत्सन्नं' प्रायेण 5 नियतम् ॥ २०४ ॥ आह कः पुनरत्र दृष्टान्तो यथा वर्धमानखाम्यपि तथैवाख्याति ? इति दृष्टान्तमाहवर्तनी जह सव्वजणवएसुं, एकं चिय सगडवत्तिणिपमाणं ।। विसमाणि य वत्थणी, सगडाईणं तह निरुत्ता ॥ २०५ ॥ यथा शकटादीनाम् , आदिशव्दाद् गळ्यादिपरिग्रहः, यद्यपि 'विषमाणि वस्तूनि' केषाञ्चि10 महान्ति केषाञ्चित् क्षुल्लकानि तथापि सर्वेष्वपि जनपदेषु एकमेव तदा तदा शकटवर्तिन्याः प्रमाणम् , सर्वत्राक्षाणां चतुर्हस्तप्रमाणत्वात् ; तथा निरुक्तानि, उपलक्षणमेतत् , निक्षेपादीनि च प्ररूपणामधिकृत्य तुल्यानि ॥ २०५॥ आह नन्ववश्यं पूर्वरथानां सम्प्रतिरथानां च विस्तरस्यास्ति विशेषः, एवं महाप्रमाणानां पूर्वमनुष्याणामल्पप्रमाणानामधुनातनमनुष्याणां [च ] विशेषो भवति, तत आह जइ वि य वत्थू हीणा, पुग्विल्लरहेहि संपयरहाणं ।। तह वि जुगम्मि जुगम्मी, सहत्थचउहत्थगा अक्खा ॥ २०६ ॥ यद्यपि पूर्वतनरथेभ्यः साम्प्रतरथानां वस्तूनि हीनानि तथापि युगे युगे सर्वत्राऽऽत्महस्तेन चतुर्हस्तका अक्षाः, ततः सर्वेष्वपि जनपदेष्वेकं शकटवर्तिन्याः प्रमाणम् । तथा यद्यपि पूर्वकाले महाप्रमाणा मनुष्याः सम्प्रतिकाले त्वल्पप्रमाणाः, तथापि सर्वेषां तदेव केवलज्ञानं 20 तदेव संहननं त एव च प्रज्ञापनीया भावा इति तुल्या प्ररूपणा ॥ २०६ ॥ ननु पञ्चधनुःशतिकप्रभृतीनां महान्ति इन्द्रियाणि, तेन तेषां प्रभूततरक्षेत्रे विषयोपलम्भविशेषः तथा केवलोपलम्भविशेषोऽपि स्याद् ? अत आह पुरिमेहिँ जइ वि हीणा, इंदियमाणा उ संपयनराणं । तह वि य सिं उवलद्धी, खित्तविभागेण तुल्ला उ ॥ २०७॥ 25 'पूर्वेभ्यः' पूर्वकालभाविभ्यः पुरुषेभ्यो यद्यपि 'साम्प्रतनराणां' सम्प्रतिमनुष्याणामिन्द्रि यमानानि हीनानि तथाप्यात्माङ्गुलमधिकृत्य क्षेत्रविभांगेनैषां तुल्या उपलब्धिः । तथाहिश्रोत्रादीन्द्रियप्रमाणं श्रोत्रादीन्द्रियविषयप्रमाणं चाऽऽत्मामुलतः, तच्च यथा पूर्वमनुष्याणां द्वादशयोजनादिकं क्षेत्रप्रमाणं तथाऽधुनातनमनुष्याणामपि । तथा चोक्तम् सोइंदियस्स णं भंते! केवइए विसए पन्नत्ते ? गोयमा ! जहन्नेणं अंगुलस्स असंखिज्जइ30 भागाओ उक्कोसेणं वारसहिंतो जोयणेहिं[तो अच्छिण्णे पोग्गले पुढे पविट्ठाति सद्दातिं सुणेति] इत्यादि (प्रज्ञापना पञ्चदशमिन्द्रियपदम् उ० १ सू० १९५)। एवं हीना-ऽधिकशरीरप्रमाणत्वेऽपि केवलेनोपलम्भस्तुल्य एवेति न कश्चिद्दोषः । अन्यच १°डाणि इणं तह निरुत्तं ता० ॥ २ भागे तेषां भा० हे. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy