________________
भाष्यगाथाः १९७ - २०४ ]
पीठिका |
६५
चत्वारो मङ्खाः । तेषामेकः फलकं गृहीत्वा हिण्डते, न गाथा उच्चरति, नापि वाचा कमप्यर्थं भाषते स न किञ्चिल्लभते । द्वितीयो न फलकं गृह्णाति, केवलं गाथाः पठन् हिण्डते सोऽपि न किञ्चिल्लभते । तृतीयो न फलकं गृह्णाति, नापि गाथा उच्चरति, परं वाचा कमप्यर्थं भाषते सोऽपि न किञ्चिल्लभते । चतुर्थस्तु फलकं गृहीत्वा गाथाः पठन् तासामर्थं च भाषमाणो हिण्डते, सर्वत्र लभते । आद्यास्त्रयोऽकुटुम्बभराः, चतुर्थः 'त्रिकयोगे' त्रिकयोगसम्प्र-5 युक्तः कुटुम्बभरः । एष दृष्टान्तः, अयमर्थोपनयः - व्यक्तावपि चत्वारो भङ्गाः - एकस्य सूत्रमायाति नार्थः, द्वितीयस्यार्थो न सूत्रम्, तृतीयस्य सूत्रमप्यायाति अर्थोऽपि चतुर्थस्य न सूत्रं नाऽप्यर्थः । अत्र द्वावाद्यौ चतुर्थश्च आद्यत्रिमङ्खपुरुषवन्न मोक्षलक्षणस्वकार्यप्रसाधकाः, तृतीयस्तु चतुर्थमङ्खवदात्मनो मोक्षप्रसाधकः || २०० ||
आह सम्प्रति कीदृशो व्यक्तिकरः ? इत्यत आह
--
जे जम्मि जुगे पवरा, तेसि सगासम्मि जेण उग्गहियं । परिवाडीण पमाणं, वुच्छं वैत्तीकरो स खलु ॥ २०१ ॥
ये यस्मिन् युगे 'प्रवराः ' प्रधानाः तेषां 'सकाशे' समीपे 'येन' ग्रहण - धारणासमर्थेन अवगृहीतम्, कतिभिः परिपाटीभिः ? इत्यत आह-परिपाटीनां परिमाणमग्रे वक्ष्ये, स खलु तदा व्यक्तिकरः || २०१ ॥ अत्र शिष्यः प्राह
निक्खेवा य निरुत्तार्णि जा य कहणा भवे पगासस्स । जह रिसभाईयाssहं किमेवं वद्धमाणो वि ॥ २०२ ॥
Jain Education International
नायज्झयणाहरणा, इसिभासियमो पन्नगसुया य ।
एए हुंति अनियया, निययं पुण सेसमुस्सण्णं ॥ २०४ ॥
४ °णि चेव जा
१ 'गसंयुक्तः भा० ॥ २ वोच्छिति व ता० ॥ ३ वित्ति° ता० विना ॥ तु कहणा पकालस्स । जह रिसभादी आहु य तहेव किं वद्ध ता० । चूर्णिकृदभिमतोऽयं पाठः || ५ यावच्चतु कां० भा० ॥ ६ यावत्कथ' भा० ॥
बृ० ९
For Private & Personal Use Only
10
ये निक्षेपाः चतुष्क- सप्तकादयः, यानि च निरुक्तानि सूत्रा - ऽर्थयोरनन्तरमुक्तानि, यो च चतुर्भिरनुयोगद्वारैः 'प्रकाशस्य' अर्थस्य कथना, चशब्दादेकार्थिकानामपि याँ च कथना, एतानि यथा 'ऋषभादयः' त्रयोविंशतिस्तीर्थकरा आख्यातवन्तः तथा किमेवं भगवान् वर्ध - 20 मानखाम्यप्याख्याति ? किं वाऽन्यथा ? इति उच्यते - तथैव ॥ २०२ ॥ ननु ते उच्चतराः, भगवान् वर्धमानखामी पुनः सप्तरत्त्रिप्रमाणः, ततः कथं तस्य तथैवाख्यानम् ? अत आह— धिय-संघणे तुल्ला, केवलभावे य विसमदेहा वि ।
केवलनाणं तं चिय, पनवणिज्जा य चरमे वि ॥ २०३ ॥
यथा विषमदेहा अपि तीर्थकृतो धृति संहनने केवलभावे च तुल्याः तथा प्ररूपणायामपि 25 तुल्याः । यतः 'चरमेऽपि' भगवति वर्धमानखामिनि तदेव केवलज्ञानं त एव च प्रज्ञापनीया भावा ये ऋषभादीनाम्, ततः कथं न तुल्या प्ररूपणा ? ॥ २०३ ॥
यस्तु विशेषस्तमुपदर्शयति
16
30
व्यतिकरः
www.jainelibrary.org