________________
भायगाथाः ९७३-८० ].
पीठिका |
५९
नोआगमतो द्रव्यश्रुतं ज्ञशरीर - भव्यशरीरव्यतिरिक्तं पत्रक - पुस्तकेषु न्यस्तम्, यच्च वाऽनुपयुक्तः पठति तद् नोआगमतो द्रव्यश्रुतम् । भावश्रुतं द्विविधम्-आगमतो नोआगमतश्च ॥ १७५ ॥ तत्राऽऽगमतो भावश्रुतं श्रुतज्ञानी 'श्रुतोपयुक्तः' श्रुतज्ञानोपयोगवान्, “उपयोगो भावनिक्षेपः” इति वचनात् । अथ कथं श्रुतज्ञानी श्रुतोपयुक्तो भावश्रुतम् ? अत आहयस्मात् 'सः' श्रुतज्ञानी श्रुतभावादनन्यः, श्रुतमपि जीवस्वभावादुपयोगादनन्यत्, ततः स एव 5 श्रुतज्ञानी भावश्रुतम् ॥ १७६ ॥ नोआगमतो भावश्रुतमाह
जं तं दुसत्तगविहं, तमेव नोआर्गमो सुर्य होइ । सामित्तासंबद्धं, समिईस हियस्स वा जं तु ।। १७७ ॥
यत् 'तत्' प्रागभिहितं ‘द्विसप्तविधं ' चतुर्दशविधमक्षरश्रुतादि, यदि वा द्वादशप्रकारमङ्गप्रविष्टमाचारादि द्विविधमङ्गबाह्यं कालिकमुत्कालिकं चेति चतुर्दशविधं श्रुतज्ञानं तदेव 'स्वामि - 10 त्वासम्बद्धं' पुरुषेषु खामित्वेनासम्बद्धम्, पुरुषेभ्यः पृथग्विवक्षितमित्यर्थः, नोआगमतो भावश्रुतम् । यदि वा समितिसहितस्य पुरुषस्योपयुक्तस्य 'यत्' श्रुतं तद् नोआगमतो भावश्रुतम् । अत्र नोशव्दो मिश्रवाची || १७७ ॥ अधुना सूत्रद्वारमाह
पंचविहं पुण दव्वे, भावम्मि तमेव होइ सुत्तं तु ।
द्रव्यतो नोआगमतो व्यतिरिक्तं सूत्रं पञ्चविधम्, तद्यथा - अण्डजं हंसगर्भादि, बोण्डजं 15 कार्पासिकम्, कीटजं कृमिर। गम्, वालजमूर्णामयम्, वल्कजं सनसूत्रादि । नोआगमतो भावसूत्रं 'तदेव' यदनन्तरं नोआगमतो भावश्रुतमुक्तम् ॥ ग्रन्थद्वारमाह-
सच्चित्ताई गंथो, दव्वे भावे इमं चैव ।। १७८ ॥
द्रव्यतो नोआगमतो व्यतिरिक्तो ग्रन्थस्त्रिविधः 'सचित्तादिः ' सचित्तः अचित्तो मिश्रश्च । एष त्रिविधोऽप्युपरि प्रथमसूत्रे वक्ष्यते । भावे ग्रन्थः ' इदमेव ' कल्पाध्ययनम् ॥ १७८ ॥ 20 अधुना सिद्धान्तद्वारमाह
जेण सिद्धं अत्थं, अंतं णयतीति तेण सिद्धंतो ।
सो सव-पडीतंतो, अहिगरणे अभ्रुवगमे य ॥ १७९ ॥
येन कारणेन प्रमाणतः सिद्धमर्थम् ' अन्तं नयति' प्रमाणकोटिमारोहयतीति तेन कारणेन सिद्धान्त उच्यते । स एष द्रव्यतो नोआगमतो व्यतिरिक्तः पुस्तक - पत्रन्यस्तः । भावतश्चतु - 25 र्विधः, तद्यथा-सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तः अधिकरणसिद्धान्तः अभ्युपगम सिद्धान्तश्च ॥ १७९ ॥ तत्र सर्वतन्त्र सिद्धान्तमाह
संति पमाणात पमेयसाहगाई तु सव्वतंतो उ ।
जव वसुमई, आपो य दवा चलो ऊ ॥ १८० ॥
सन्ति 'प्रमाणानि' प्रत्यक्षादीनि प्रमेयसाधकानि, तथा स्थैर्यवती पृथिवी, आपो द्रवाः, 30 चलो वायुः, एष सर्वतन्त्रसिद्धान्तः, सर्वेषु तन्त्रेष्वस्यार्थस्य सिद्धत्वात् ॥ १८० ॥
१ गमे सुयं ता० ॥ २ तत्र मो० भा० ॥ ३ पुण सुन्तं, दव्त्रे भावस्मि होइ सुत्तं तु ता० विना ॥ ४ णाणि प° ता० ॥ ५ 'गाई ति सन्त्र' ता० ॥ ६ वातो ता० ॥
Jain Education International
For Private & Personal Use Only
सूत्रस्य
निक्षेपाः
ग्रन्थस्य
निक्षेपाः
सिद्धान्त
निक्षेपाः
सर्वतत्र. सिद्धान्तः
www.jainelibrary.org