SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ १५८. पुरुषवाद और पुरुषकार ५३९ १५५. “नायमेकान्तः। अनेककीटिकाशतनिष्पाद्यत्वेऽपि शक्रमूलः, अनेकशिल्पिकल्पितत्वेऽपि प्रसादादीनां, नैकसरघानिर्वतितत्वेऽपि मधुच्छत्रादीनां चैकरूपताया अविगानेनोपलम्भात्। अथैतेष्वप्येक एवेश्वरः कर्तेति ब्रूषे। एवं चेद् भवतो भवानीपतिं प्रति निष्प्रतिमा वासना, तर्हि कुविन्दकुम्भकारादितिरस्कारेण पटघटादीनामपि कर्ता स एव किं न कल्प्यते।" -स्याद्वादमंजरी, पृष्ठ ३४ १५६. "तस्माद् वैमत्यभयाद् महेशितुरेकत्वकल्पना भोजनादिव्ययभयात् कृपणस्यात्यन्तवल्लभ-पुत्रकलत्रादिपरित्यजनेन शून्यारण्यानीसेवनमिवाभासते।" __ -स्याद्वादमंजरी, पृष्ठ ३४ १५७. “तथा स सर्वग इति। सर्वत्र गच्छतीति सर्वगः-सर्वव्यापी। तस्य हि प्रतिनियतदेशवर्ति- त्वेऽनियतदेशवृत्तीनां विश्वत्रयान्तर्वर्तिपदार्थसार्थानां यथावन्निर्माणानुपपत्तिः। कुम्भकारादिषु तथा दर्शनाद्। अथवा सर्व गच्छति जानातीति सर्वगः-सर्वज्ञः "सर्वे गत्यर्था ज्ञानार्थाः" इति वचनात्। सर्वज्ञत्वभावेहि यथोचितोपादानकारणाधनभिज्ञत्वाद् अनुरूपकार्योत्पत्तिर्न स्यात्।" -स्याद्वादमंजरी, पृष्ठ ३० "तथा सर्वगतत्वमपि तस्य नोपपन्नम्। तद्धि शरीरात्मना, ज्ञानात्मना वा स्यात्? प्रथमपक्षे तदीयेनैव देहेन जगत्त्र्यस्य व्याप्तत्वाद् इतरनिर्मेयपदार्थानामाश्रयानवकाशः। .....यदि परमेवं भवत्प्रमाणीकृतेन वेदेन विरोधः। तत्र हि शरीरात्मना सर्वगतत्वमुक्तम्- "विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतः पाणिरुत विश्वतः पात्" इत्यादि श्रुतेः" -स्याद्वादमंजरी, पृष्ठ ३४ १५९. "तथा स स्ववश:- · स्वतन्त्रः सकलप्राणिनां स्वेच्छया सुखदुःखयोरनुभावनसमर्थत्वात्।" -स्याद्वादमंजरी, पृष्ठ ३० १६०. पारतन्त्र्ये तु तस्य परमुखप्रेक्षितया मुख्यकर्तृत्वव्याघात् अनीश्वरत्वापत्तिः। -स्याद्वादमंजरी, पृष्ठ ३० १६१. "स हि यदि नाम स्वाधीनः सन् विश्वं विधत्ते, परमकारुणिकश्च त्वया वर्ण्यते, तत् कथं सुखितदुःखिताद्यवस्थाभेदवृन्दस्थपुटितं घटयति भुवनम् एकान्तशर्मसंपत्कान्तमेव तु किं न निर्मिमीते? अथ जन्मान्तरोपार्जिततत्तत्तदीय शुभाशुभकर्मप्रेरितः सन् तथा करोतीति दत्तस्तर्हि स्ववशत्वाय जलांजलिः।" -स्याद्वादमंजरी, पृष्ठ ३९ १६२. स्याद्वादमंजरी, पृष्ठ ४२ १६३. व्याख्याप्रज्ञप्ति, शतक १२, उद्देशक ५, सूत्र ११ १६४. व्याख्याप्रज्ञप्ति शतक ७, उद्देशक १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002509
Book TitleJain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Original Sutra AuthorN/A
AuthorShweta Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2007
Total Pages718
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy