________________
५३८ जैनदर्शन में कारण-कार्य व्यवस्था : एक समन्वयात्मक दृष्टिकोण १४४. नेश्वराधिष्ठित-प्रकृतिकृतः निर्व्यापारस्याधिष्ठातृत्वासम्भवाद। न हि
निर्व्यापारस्तक्षा वास्याद्यधितिष्ठिति। -सांख्यतत्त्वकौमुदी कारिका ५६ १४५. "न ह्यवाप्तसकलेप्सितस्य भगवतो जगत् सृजतः किमप्यभिलषितं भवति।"
-सांख्यतत्त्वकौमुदी, कारिका ५७ १४६. "नापि कारुण्यादस्य सर्गे प्रवृत्तिः प्राक् सर्गाज्जीवानामिन्द्रियशरीरविषयानुत्पत्तौ
दुःखाभावेन कस्य प्रहाणेच्छा कारुण्यम्। सर्गोतरकालं दुःखिनोऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरेतराश्रयत्वम्-कारुण्येन सृष्टिः सृष्ट्या च कारुण्यम्
इति।" -सांख्यतत्त्वकौमुदी, कारिका ५७ १४७. अपि च करुणया प्रेरित ईश्वरः सुखिन एव जन्तून् सृजेन्न विचित्रान्। कर्मवैचित्र्याद्वैचित्र्यम् इति चेत्-कृतमस्य प्रेक्षावत: कर्माधिष्ठानेन"
-सांख्यतत्त्वकौमुदी, कारिका, ५७ १४८. अन्ययोगव्यवच्छेद-द्वात्रिंशिका, श्लोक ६ १४९. "उर्वीपर्वतततर्वादिकं सर्व, बुद्धिमत्कर्तृकं, कार्यत्वात्, यद् यत् कार्य तत् तत्सर्व
बुद्धिमत्कर्तृकं, यथा- घटः तथा चेदं, तस्मात् तथा। व्यतिरेके व्योमादि। यश्च बुद्धिमांस्तत्कर्ता स भगवानीश्वर एवेति।"
-स्याद्वादमंजरी, श्लोक ६ की टीका, पृष्ठ २८ १५०. “स चायं जगन्ति सृजन् सशरीरोऽशरीरो वा स्यात्? सशरीरोऽपि किमस्मदादिवद्
दृश्यशरीरविशिष्टः, उत पिशाचादिवददृश्यशरीर विशिष्टः? प्रथमपक्षे प्रत्यक्षबाधः।"
-स्याद्वादमंजरी, पृष्ठ ३२ १५१. "पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेषः कारणम्.........इतरेतराश्रयदोषापत्तेश्च।
सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरीरत्वम् प्रत्येतव्यम्। तत्सिद्धौ च
माहात्म्यविशेषसिद्धिरिति।" -स्याद्वादमंजरी, पृष्ठ ३३ १५२. "अशरीरश्चेत् तदा दृष्टान्तदार्टान्तिकयोवैषम्यम्। घटादयो हि कार्यरूपाः
सशरीरकर्तृका दृष्टाः।" -स्याद्वादमंजरी, पृष्ठ ३३ १५३. "तस्मात् सशरीराशरीरलक्षणे पक्षद्वयेऽपि कार्यत्वहेतोप्प्त्यसिद्धिः"
-स्याद्वादमंजरी, पृष्ठ ३३ १५४, "स चैक इति। च पुनरर्थे। स पुनः-पुरुषविशेषः, एकः अद्वितीयः। बहूनां हि
विश्वविधातृत्वस्वीकारे परस्परविमतिसंभावनाया अनिवार्यत्वाद् एकैकस्य वस्तुनोऽन्यान्य- रूपतया निर्माणे सर्वमसमंजसमापद्येत इति।" ।
-स्याद्वादमंजरी, पृष्ठ ३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org