SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ९१ ५३२ जैनदर्शन में कारण-कार्य व्यवस्था : एक समन्वयात्मक दृष्टिकोण उतामृतत्वस्येशान इति। उतशब्दोप्यर्थे। अपिशब्दश्च समुच्चये। अमृतत्वस्य च अमरणभावस्य मोक्षस्येशानः प्रभुरित्यर्थः। यदन्नेनातिरोहतीति। च शब्दस्य लुप्तस्य दर्शनाद् यच्चान्नेन- आहारेण, अतिरोहति-अतिशयेन वृद्धिमुपैति। यदेजति-चलति, पश्वादि। यद् नैजति- न चलति पर्वतादि। यद् दूरे मेर्वादि। यदु अन्तिके-उशब्दोऽवधारणे, यदन्तिके समीपे तदपि पुरुष एवेत्यर्थः। यदन्तः मध्ये अस्य चेतनाचेतनस्य सर्वस्यः यदेव सर्वस्याप्यस्य बाह्यतः तत् सर्व पुरुष एवेति। अतस्ततिरिक्तस्य कर्मणः किल सता दुःश्रद्धेयेति।" । -विशेषावश्यक भाष्य, गाथा १६४३ "पुरुष एवेदं सर्व-इत्यादीनि तावत् पुरुषस्तुतिपराणि जात्यादिमदत्यागहेतोरद्वैतभावना-प्रतिपादकानि च वर्तन्ते, न तु कर्मसत्ताव्यवच्छेदकानि। वेदवाक्यानि हि कानिचिद् विधिवादपरणि, कान्यप्यर्थवादप्रधानानि, अपराणि त्वनुवादपराणि तत्र 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यादीनि विधिवादपराणि"। -विशेषावश्यक भाष्य, गाथा १६४३ ९२. विशेषावश्यक भाष्य, गाथा १६४३ ९३. तस्मात् 'पुरुष एवेदं सर्वम्' -इत्यादीनि वेदपदानि स्तुत्यर्थवादप्रधानानि द्रष्टव्यानि। 'विज्ञानघन एवैतेभ्यः' इत्यत्राप्यमर्थः -विज्ञानघनाख्यः पुरुष एवायं भूतेभ्योऽर्थान्तरं वर्तते। स च कर्ता, कार्य च शरीरादिकमिति प्राक् साधितमेव। ततश्च कर्तृकार्याभ्यामर्थान्तरं करणमनुमीयतेः, तथाहि यत्र कर्तृकार्यभावस्तत्रावश्यंभावि करणम्, यथाऽयस्काराऽयः पिण्डसद्भावे संदंशः यच्वात्रात्मनः शरीरादिकार्यनिवृत्तौ करणभावमापद्यते तत् 'कर्म' इति प्रतिपद्यस्व। अपि च, साक्षादेव कर्मसत्ताप्रतिपादकानि श्रयन्त एव वेदवाक्यानि, तद्यथा"पुण्यः पुण्येन कर्मणा पापः पापेन कर्मणा" इत्यादि। तस्मादागमादपि प्रतिपद्यस्व कर्मेति।" -विशेषावश्यक भाष्य, गाथा १६४३ अन्यस्त्वाह- "पुरुष एवैकः सकललोकस्थिति-सर्ग-प्रलय हेतुः प्रलयेऽपि अलुप्तज्ञानातिशय शक्तिः " -सन्मति तर्क की टीका, पृष्ठ ७१५ "अत्र सकललोकस्थिति-सर्ग-प्रलयहेतुता ईश्वरस्येवपुरुषवादिभिः पुरुषस्य इष्टा। विशेषस्तु समवायाद्यपरकारणसव्यपेक्ष ईश्वरो जगद् निवर्तयति अयं तु केवल एवा" ईश्वरवादी जिस प्रकार समस्त लोक की स्थिति सर्ग और प्रलय में ईश्वर की कारणता स्वीकार करते हैं उसी प्रकार पुरुषवादी इनमें पुरुष की कारणता अंगीकार करते हैं। दोनों में अन्तर यह है कि ईश्वर समवाय आदि अन्य कारणों की अपेक्षा रखकर जगत् की रचना करता है जबकि पुरुष अकेला ही समस्त् जगत् की रचना आदि करता है। -सन्मति तर्क की टीका पृष्ठ ७१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002509
Book TitleJain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Original Sutra AuthorN/A
AuthorShweta Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2007
Total Pages718
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy