________________
८६.
पुरुषवाद और पुरुषकार ५३१ ८४. “अथ विनिद्रालक्षणविपरीतोऽपि पुरुषः पुरुष एवावधारणभेदात्, विनिद्रावस्था
स्वात्मनि विनिद्रावस्थैव लक्षणम्, पुरुषे तु लक्षणमेव अन्यासामप्यत्यागात् स ह्यनेकरूपो मेचकवत्।" -द्वादशारनयचक्रम्, प्रथम विभाग, पृ. २४९-२५० द्वादशारनयचक्रम्, प्रथम विभाग, सिंहसूरि टीका, पृष्ठ २५० "यद्यपि च पुरुषस्वात्मैव अवस्था न तर्हि ना, अनवस्थत्वात् खपुष्यवत्। अभ्युपगमेऽपि नुः अवस्थानां चतसृणामप्यैक्यं स्यात् पुरुषस्वात्मत्वात् पुरुषवदिति। सर्वत्वसम्भाव्याभावात् सर्वाव्यापिता पुरुषस्य। विनिद्रावस्थैव हि जाग्रदवस्था विनिद्रावस्थास्वात्मत्वाद् विनिद्रावस्थावत् एवमितरे अपि। जाग्रदवस्थैव विनिद्रावस्था जाग्रदवस्थास्वात्मत्वाज्जाग्रदवस्थावत् एवमितरे अपि। सुप्तावस्थैव विनिद्रावस्था सुप्तावस्थास्वात्मत्वात् सुप्तावस्थावत्, एवमितरे अपि। सुषुप्तावस्थैव विनिद्रावस्था सुषुप्तावस्थास्वात्मत्वात् सुषुप्तावस्थावत्, एवमितरे अपि। यैवान्यावस्था सैवान्यापि एकस्वात्मत्वात् सा इवेति 'पुरुष एवेदं सर्वम' इत्यतिदेशाभावो भेदाभावात्।"
-द्वादशारनयचक्रम्, प्रथम विभाग, पृष्ठ २५३-२५५ ८७. "योऽसावेक एव पुरुषः सम्भाव्यते तस्याप्यनेकतैवमापद्यते,
यत्स्वरूपाव्यतिरिक्तलक्षणा अवस्था बिना भेदेनोच्यन्ते स पुरुषोऽपि पुरुषेणाभिव्याप्तत्वादनवंस्थितैकत्वतत्वप्रतिष्ठः 'पुरुषः' इत्यतिदेश्यः स्यात् पुरुषस्वात्मत्वादवस्थावत्।
प्रत्यक्षार्थेदंविषयतायां
वा अचेतनव्यक्तमूर्तानित्यादिरूपार्थपुरुषपरमार्थता।"
-द्वादशारनयचक्रम्, प्रथम विभाग पृष्ठ २५६-२५७ ८८. "अवस्थास्त्वन्यत्वानेकत्व एव पुरुषः। अवश्यमन्यास्तास्तस्मात्,
तद्रूपापत्त्यनिष्टत्वात्, अवस्थान्तरवत्, यतोऽवस्थास्वात्मत्वमस्य नेष्यते। पुरुषातिदेशात्तु पुनः स्वपरविषयकृत-भेदद्वारान्यत्वासम्भवात् कस्यचित् कथंचिदप्यन्यस्यानुपपत्तौ ता अपि अन्यत्वापत्तिवत् पृथक्-पृथक् पुरुषः।"द्वादशारनयचक्रम्, प्रथम विभाग, पृष्ठ २५७ "अथ पुरुषलक्षणापि विनिद्रावस्था न पुरुषः पुरुषोऽपि न तर्हि पुरुषः । पुरुषलक्षणत्वाद् विनिद्रावस्थावत्। एवं शेषा अपि इति पुरुषाभाव एव, कुतोऽस्य सर्वगतता? तदभाव एव त्वदभिप्राय एव एवं प्रतिपाद्यते, तदात्मत्वाभिमतनिरसनात्, उष्णत्वनिरसनेन अग्रयभावप्रतिपादनवत्।"
___-द्वादशारनयचक्रम्, प्रथम विभाग, पृष्ठ २५८ ९०. "इदं सर्व- प्रत्यक्षं वर्तमानं चेतनाचेतनस्वरूपम्, 'ग्नि' इति वाक्यालंकारे, यद्
भूतम्- अतीतम्, यच्च भाव्य-भविष्यद् मुक्तिसंसारावपि स एवेत्यर्थः।
८९.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org