________________
पुरुषवाद और पुरुषकार ५३३ ९६. “अस्य च ईश्वरस्येव जगद्धेतता असंगता। तथाहि- "पुरुषो जन्मिनां हेतुर्नोत्पत्तिविकलत्वतः। गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत्।।"
-सन्मति तर्क की अभयदेव टीका पृष्ठ ७१५ ९७. किंच, प्रेक्षापूर्वकारिप्रवृत्तिः प्रयोजनवत्तया व्याप्तेति किं प्रयोजनमुद्दिश्य अयं
जगत्करणे प्रवर्तते? नेश्वरादिप्रेरणात् अस्वातन्त्र्यप्रसक्तः। न परानुग्रहार्थमनुकम्पया दुःखितसत्त्व- निर्वर्तनानुपपत्तेः। न तत्कर्मप्रक्षयार्थ दुःखितसत्त्वनिर्माणे प्रवृत्तिः तत्कर्मणोऽपि तत्कृतत्वेन तत्प्रक्षयार्थ तन्निर्माणप्रवृत्ती अप्रेक्षापूर्वकारितापत्तेः। न च प्राक् सृष्टिः अनुकम्पनीयसत्त्वसद्भाव इति निरालम्बनाया अनुकम्पाया अयोगात् नातोऽपि जगत्करणे प्रवृत्तिर्युक्ता।
-सन्मति तर्क की अभयदेव टीका, पृष्ठ ७१६ ९८. " न च अनुकम्पातः प्रवृत्तौ सुखिसत्त्वप्रक्षयार्थ प्रवृत्तिर्युक्तेति देवादीनां
प्रलयानुपपत्तिर्भवेत्। न च समर्थस्य दुःखकारणमधर्मादिकमपेक्ष्य कृपालोर्दुखितसत्त्वनिवर्तनं युक्तम्, कृपापरतन्त्रतया दुःखप्रदे कर्मण्यवधारणोपपत्तेः न हि कृपालवः परदुःखहेतुत्वमेव इच्छन्ति परदुःखवियोगेच्छयैव तेषां सर्वदा प्रवृत्तेः।" -सन्मति तर्क की टीका, पृष्ठ ७१६ न च क्रीडया अपि तत्र तस्य प्रवृत्तिर्युक्ता क्रीडोत्पादेऽपि जगदुत्पादापेक्षया तस्यास्वातन्त्र्योपपत्तेः जगदुत्पत्ति-स्थिति-प्रलयात्मकस्य विचित्रक्रीडोपायस्य तदुत्पत्तौ अपेक्षणात्। यदि विचित्रक्रीडोपायोत्पादने तस्य प्रागेव शक्तिः तदा युगपद् अशेषजगदुत्पत्ति-स्थिति-प्रलयान् विदध्यात्। अथ आदौ न तत्र शक्तिस्तदा अशक्तवास्थाया अविशिष्टत्वात् क्रमेणापि न तान् विदध्यात् एकत्र एकस्य
शक्ताऽशक्तत्वलक्षणविरुद्धधर्मद्वयायोगात्। -सन्मति तर्क टीका, पृष्ठ ७१६ १००. "पुरुषवादिनां तु केवलस्यैव पुरुषस्य जगत्कारणत्वेन अभ्युपगमात् तदपेक्षा
दुरापास्तैव। पृथिव्यादिमहाभूतानां तु स्वहेतुबलायाताऽपरापरस्वभावसद्भान्न तदुत्पाद्यकार्यस्य युगपदुत्पत्त्यादिदोषः संभवी।" -सन्मति तर्क की टीका, ३१७ न च यथा ऊर्णनाभः स्वभावतः प्रवृत्तोऽपि न स्वकार्याणि युगपद् निर्वर्तयति तथा पुरुषोऽपीति वाच्यम्, यत ऊर्णनाभस्यापि प्राणिभक्षणलाम्पट्यात् स्वकार्ये प्रवृत्तिर्न स्वभावतः अन्यथा तत्राप्यस्य दोषस्य समानत्वात् न ह्यसौ नित्यैकस्वभावः अपि तु स्वहेतुबलभाव्यपरापरकादाचित्कशक्तिमानिति तद्भाविनः कार्यस्य क्रमप्रवृत्तिरूपन्नैव। न च यथा कथंचित् अबुद्धिपूर्वकमेव पुरुषो जगन्निवर्तने प्रवर्तते, प्राकृतपुरुषादप्येवमस्य हीनतया प्रेक्षापूर्वकारिणामनवधेयवचनताप्रसक्तेः।
-सन्मति तर्क, अभयदेव टीका, पृष्ठ ७१७
१०१.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org