________________
पूर्वकृत कर्मवाद ४५३ २८७. "तयोरहि-धेन्वोराहारस्तदाहारः स तुल्योऽपि दुग्धादिको गृहीत:
परिणामाऽऽश्रयवशाद् यथा धेन्वाः पयो दुग्धं भवति, अहेस्तु स एव विषंविषरूपतया परिणमति, तथा तेनैव प्रकारेण पुण्याऽपुण्यपरिणामः। इदमुक्तं भवति- अस्ति स कश्चित् तस्याऽऽहारस्य परिणामो येन तुल्योऽपि सन्नाश्रयवैचित्र्याद् विचित्रतया परिणमति; आश्रयस्याप्यहि-धेनुलक्षणस्यास्ति तत्तद् निजसामर्थ्यम्, येन तुल्योऽपि गृहीत आहारस्तत्तद्रूपतया परिणमते; तथा पुण्य-पापयोरूपनययोजना कृतैवेति।"
-विशेषावश्यक भाष्य गाथा १९४४ की टीका २८८. “जह वेगसरीरम्मि वि साराऽसारपरिणामयामेइ।
अविसिट्ठो वाहारो तह कम्मसुभाऽसुभविभागो।।" भाष्य- "धेनु-विषधरयोर्भिन्ने शरीर आहारस्य परिणामवैचित्र्यं दर्शितम्। 'वा' इत्यथवा, यथैकस्मिन्नपि पुरुषादिशरीरेऽविशिष्टेऽप्येकरूपोऽत्याहारो गृहीतस्तत्क्षण एव साराऽसारपरिणामतामेति-रसाऽसृग-मांसादि-रसपरिणाम मूत्र- पुरीषरूपमलपरिणामं च युगपदागच्छतीत्यर्थः तथा कर्मणोऽप्यविशिष्टस्य गृहीतस्य परिणामऽऽश्रयवशात् शुभाऽशुभविभागो द्रष्टव्य इति।"
-विशेषावश्यक भाष्य, गाथा १९४५ और उसकी टीका २८९. विशेषावश्यक भाष्य गाथा १९४६ २९०. विशेषावश्यक भाष्य गाथा १९३९ २९१. "इहज्ञानावरणादिमूलप्रकृतीनामन्योन्यं संक्रमः कदापि न भवत्येव, उत्तरप्रकृतीनां
तु निजनिजमूलप्रकृत्यभिन्नानां परस्परं संक्रमो भवतीति।.....एकस्या आयुर्लक्षणाया निजमूलप्रकृतेरभिन्नानामपि चतुर्णामायुषामन्योन्यं संक्रमो न भवतीति तद्वर्जनम्। तथा, दर्शनमोहं चारित्रमोहं च मुक्त्वा ; एकस्या मोहनीयलक्षणायाः स्वमूलप्रकृतेरभिन्नयोरपि दर्शनमोह-चारित्रमोहयोरन्योन्यं संक्रमो न भवतीत्यर्थः। उत्तरभेदास्तद्भूतानामुत्तरप्रकृतिरूपाणां संक्रमो भाज्यो भजनीयः।"
-विशेषावश्यक भाष्य गाथा १९३९ की टीका २९२. अहवाऽणाइत्तणओ खस्स व किं कम्म-जीवजोगस्स।
अविओगाओ न भवे संसाराभाव एव त्ति।। - विशेषावश्यक भाष्य गाथा १९७६ २९३. "बध्यते पुण्य-पापकर्मणा जीवः दान-हिंसादिक्रियाणां सफलत्वात्,
कृष्यादिक्रियावत्, तथा, विघटते सम्यगुपायात् कोऽपि जीव-कर्म संयोगः, संयोगत्वात्, कांचनधातुपाषाणसंयोगवत् इत्याद्यनुमानात् परिहर्तव्यमिति।
-विशेषावश्यक भाष्य गाथा १९८५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org