________________
४५२ जैनदर्शन में कारण-कार्य व्यवस्था : एक समन्वयात्मक दृष्टिकोण २८१. "दृष्ट एव माता-पित्रादिकस्तेषां हेतुः, दृष्टहेतुसाम्येऽपि सुरूपे-तरादिभावेन
देहादीनां वैचित्र्यदर्शनात्, तस्य चादृष्टकर्माख्यहेतुमन्तरेणाभावात्। अतएव पुण्य-पापभेदेन कर्मणो द्वैविध्यम्, शुभदेहादीनां पुण्यकार्यत्वात्, इतरेषां तु
पापफलत्वात्।" -विशेषावश्यक भाष्य गाथा १९२० की टीका २८२. विशेषावश्यक भाष्य गाथा १९२१ २८३. "जीव-पुण्यसंयोगः सुखस्य कारणम्, तस्य च सुखं पर्याय एव, दुःखस्यापि
जीव-पापसंयोगः कारणम्, अतस्तस्यापि दुःखं पर्याय एव, यथा च सुखं शुभं, कल्याणं, शिवमित्यादीन् व्यपदेशाल्लभते तथा तत्कारणभूतं पुण्यस्कन्धद्रव्यमपि यथा च दुःखमशुभम्, अकल्याणम्, अशिवमित्यादिसंज्ञाः प्राप्नोति तथा तत्कारणभूतं पापद्रव्यमपि, इति विशेषतोऽत्र पुण्य-पापे सुख दुःखयोरनुरूपकारणत्वेनोक्ते इति।" -विशेषावश्यक भाष्य गाथा १९२४ की
टीका २८४. विशेषावश्यक भाष्य गाथा १९४१ . २८५. "तस्य पुण्य-पापात्मकस्य कर्मणो योग्यमेव कर्मवर्गणागतं द्रव्यं जीवो ग्रह्णाति,
न तु परमाण्वादिकम्, औदारिकादिवर्गणागतं वाऽयोग्यमित्यर्थः। तदप्येकक्षेत्रावगाढमेव गृणाति, न तु स्वावगाढप्रदेशोभ्यो भिन्नप्रदेशावगाढमित्यर्थः। तच्च तथा तैलादिकृताभ्यंग पुरुषो रेणुं गृह्णाति तथा राग-द्वेषक्लिन्नस्वरूपो जीवोऽपि गृह्णाति न तु निर्हेतुकमिति भावः। इदं च सर्वैरपि स्वप्रदेशैर्जीवो गृह्णाति, न तु कैश्चिदित्यर्थः" - विशेषावश्यक भाष्य
गाथा १९४१ की टीका २८६. "स जीवस्तत्कर्म ग्रहणे ग्रहणकाले शुभाऽशुभादिविशेषणाविशिष्टमपि गृह्णन्
क्षिप्रं तत्क्षणमेव शुभमशुभं वा कुरुते-शुभाऽशुभविभागेन व्यवस्थापयतीत्यर्थः। कुतः? इत्याह- 'परिणामाऽऽसयसभावउ ति' इहाश्रयो द्विविधकर्मणो जीव आश्रयः, कर्म तु शुभाशुभत्वस्य, तस्य द्विविधस्याप्याश्रयस्य स्वभाव आश्रयस्वभावः, परिणामश्चाश्रयस्वभावश्च परिणामऽऽश्रयस्वभावौ, ताभ्यामेतत् कुरुते जीवः। इदमुक्तं भवति-जीवस्य यः शुभोऽशुभो वा परिणामोऽध्यवसायस्तद्वशात् ग्रहणसमय एव कर्मणः शुभत्वमशुभत्वं वा जनयति; तथा जीवस्यापि कर्माश्रयभूतस्य स कोऽपि स्वभावोऽस्ति येन शुभाऽशुभत्वेन परिणमयन्नेव कर्म गृहणाति; तथा, कर्मणोऽपि शुभाऽशुभभावाद्याश्रयस्य स स्वभाव:- स कश्चिद् योग्यताविशेषोऽस्ति, येन शुभाऽशुभपरिणामान्वितजीवेन गृह्यमाणमेवैतद्रूपतया परिणमति।" - विशेषावश्यक भाष्य गाथा १९४३ की टीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org